SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका समाना इति मन्तव्यत्वे का बाधा ? किंञ्च वरबोधितः प्रागन्ये सर्वे भव्यात्मानश्च तीर्थकरात्मानः सर्वथा भिन्नाः पृथम्पा एकसमा न सन्ति तत्र भेदकारकं कि कारणमस्तीति शङकासमाधानाय प्रतिवस्तूपमाद्वाराऽहनाशुद्धमपि जात्यरत्नं समानमजात्यरत्नेन, न चेतरवितरेण, तथा संस्कारयोगे सत्युत्तरकालमपि तद्भदोपपत्तेः, न हि काचः पद्मरागीभवति, जात्यनुच्छेदेन गुणप्रकर्षाभावाद्, इत्थं चैतदेवं.. .. ......'न' व 'बमुखमपि' मलयस्तमपि 'जात्यरत्न' पारागादि 'समान' तुल्यम् 'भजात्यरत्नेव' कावादिना, मुद्धं तत्समानं न भवत्येवेत्यपिशब्दार्थः, 'न चेतरद्' अजात्यरत्नं 'इतरेग' जात्यरत्नेन, कृत इत्याह'नया' अशुद्धावस्थायामसमानतायां सत्यां, 'संस्कारयोगे' शुन्युपायक्षारमृत्पुटपाकसंयोगे, उत्तरकालमपि, कि पुनः पूर्वकालमित्यपेरथः तद्भेदोपपत्तेः' तयोर्मात्याजात्यरलयोरसादृश्यघटनाइँदोपपत्तिः, तामेव भावयति-'नहि काचः परागीभवति' संस्कारयोगपीति गम्यते हेतुमाह-'जात्यनुच्छेदेन' काचादिस्वभायानुल्लङघनेन 'गुणप्रकर्षाभावात्' गुणानां-कान्त्यादीनां वृद्धयभावात्, इदमेव तन्त्रयुक्त्या साधयितुमाह-'इत्थं च' इत्वमेव जात्यनुच्छेदेनव, चकारस्यावधारणार्थत्वात् 'एतत्' गुणप्रकर्षभवनलक्षणं वस्तु, कुत इत्याह-एवम् अनेन जात्यनुच्छेदेन गुणप्रकर्षभावलक्षणत्रकारेष। . - से....प्रतिरूपं वस्तु प्रतिवस्तु, समानरूपधर्मगुणवद्वस्तु, तस्योपमया प्रकृतवस्तु सिद्धयति अथवा "प्रतिवस्तूपमा सा स्याद् वाक्ययोर्गम्यसाम्पयोः ।।४॥ एकोऽपि धर्मः सामान्यो यत्र निदिश्यते पृषम् ॥५०॥ सा.द." वाक्ययोक्मिार्थयोःमम्मसामयोः प्रतीयमानोपमानोपमेयभाक्योः एकोप धर्मः सामान्यो यत्र पृथम् निर्दिस्यते सा प्रतिवस्तूपमा, प्रतिवस्तु-प्रत्यर्थमुपमा यस्यामिति प्रतिवस्तूपमा. दृ.-स्वन्मुख एवाहं रज्यामि चन्द्र एव चकोसे रज्यते इति प्रतिवस्तूपमा, तथा प्रकृतेऽपि 'अशुद्ध जात्यरत्नं, अजात्यरत्नेन समानं न भवत्येव' 'अव्यवहारव्यवहाराशिस्थितस्तीर्थकरात्मा, सर्वान्यभव्यजीवैः' सह समानो न भवत्येव' जात्यरत्नं-श्रेष्ठरत्नरूपपद्मरागादि, अशुद्धमपि-मृत्तिकादिमलिनवस्तु, सम्बन्धजनित-मलेन ग्रस्तमपि, काचादिरूपाजाव्यरत्नेन सह समान-समानतावन्न भवति, सुद्धं जात्यरत्नं, अजात्य रत्नसमानं न भवत्येवेत्यपि शब्दस्यार्थः, बजात्यरत्नं (अशुद्धं) जात्यरत्नेन सह समानं न भवति. यतः, तथा-अभुद्धावस्थायामसमानतायां सत्या संस्कारयोगे-शुद्धरुपायभूतक्षारमृत्पुटपाकसंयोगे सत्यपि उत्तरकालमपि (किं पुनः पूर्वकालमित्यपेरर्थः,) तद्भेदोपपत्ते:तयोर्जात्याजात्यरत्नयोः-जात्यरत्नस्या जात्यरत्नस्य च मिथोऽसमानता संगता भवति, अतो भेदस्योपपत्तिः, तथा च-जात्यरत्लाजात्यरत्नयोरशुद्धावस्थागताऽसमानताऽस्ति, अत एव, उत्तरकाले-शुद्धावस्थायामसमानता वर्तते यद्यशुद्धावस्थायां समानतामते, तर्हि शुद्धावस्थायां प्रत्यक्षगोचराऽसमानता कथं ? अत एवेदमवश्यं प्रतिपत्तव्यमेव यद्, शुद्धावस्थायामसमानता-कार्य प्रत्यक्षगोचरं भवत्यतोऽशुद्धावस्था 86
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy