SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मलितविस्तरा-सटीका sऽभासा, भवतु नाम सदाशिवभिन्नापरपुरुषकर्तृकायाः क्रियाया इत्वमक्रियात्वं, अचिन्त्यशक्तिमत्त्वेन 'सदाशिवकर्तृ कायाः क्रियाया न पुनरक्रियात्वमिति चेदाह-'इति' एवं कम्मणों योग्यताभावे एव क्रियायाः क्रियात्वे (कर्मणो योग्यताया अमावे क्रियाया अक्रियात्वे) एकान्तिके (एकान्ततो निश्चयतः) सार्वत्रिके (सर्वदेशकालेषु व्यापके सकललोकसिद्धे, सति, नैव, अभव्ये (निर्वाणाऽयोग्ये) प्राणिनि सदाशिवाऽनुग्रहो भवति, यदि स्वयोग्यताया अपेक्षां विनाऽपि सदाशिवाऽनुग्रहक्रिया स्यात्तदासावभव्यमप्यनुगृहणीयाद्, न चाभव्येऽनुगृह गाति, यतः सर्वत्र-अभव्यमाने सदाशिवकर्तृ कानुग्रहक्रियायाः प्रसङमो (अनिष्टापत्तिरूपप्रसङमो) भवेत्, कथमिति चेदाह-अभव्यत्वजातेरविशेषात्, को हि नामाऽभव्यत्वे समेऽपि विशेषो? येनैककस्थाऽनुग्रहो माऽन्यस्येति । 'इति भावनीयम्' एतत् परिभावनीयं यथा 'स्वयोग्यतैव सर्वत्र फलहेतुः' अर्थात् सर्वत्र-आत्मगुणप्राप्त्यादौ, स्वनिष्ठतादृशयोग्यतैव (न स्वयोग्यतां सर्वथा वर्जयित्वा) फलहेतुः-फलोपधायकहेतु:-अव्यवहितकारणं, सर्वात्मगुणप्राप्त्यादिकार्य प्रति स्वनिष्ठयोग्यतैव-स्वनिष्ठतथाभव्यत्वरूपयोग्यतैव प्रधानत्वेन फलोपधायककारणमस्ति तथाऽपि तत्परिपाके यानि यानि कारणानि शास्त्रनिद्दिष्टानि तान्यवश्यमन्वेषितव्यानि, यतः स्वयोग्यताप्रकर्षणान्ततो गत्वा फलप्राप्तिरिति. यदुक्तं पूर्व 'तीर्थकरत्वरूप-फलकारणवरबोधिप्राप्तिद्वारा स्वतो बोधिमन्तः स्वयंसम्बुद्धा भवन्ति' तद्वरबोधि-वैशिष्ट्यं साधयितु ज्ञापयति 'बोधिभेदोऽपि' सम्यक्त्वादिमोक्षमार्गभेदरूपविशेषोऽस्ति, सहजतथाभव्यत्वादिमूलभेदेन सर्वत्र मोक्षमार्ग विशेषो वर्तत, अपिशब्देन, तीर्थकरात्रिविभूत्याद दे तु कः प्रश्नः, अतः तीर्थकररूपविशिष्टव्यक्ति-अतीर्थकरसामान्यव्यक्तिगतसम्यक्त्वादिमोक्षमार्गभेदोऽपि युक्तियुक्त एव युक्तिमेवाहविशिष्टेतरफलयोः परम्पराहेत्वोरपि भेदात्, एतदभावे तद्विशिष्टेतरत्वानुपपत्तेः, भगवद्बोधिलाभो हि परम्परया भगवद्भावनिर्वर्तनस्वभावो, न त्वन्तकृत्केवलिबोधिलाभवदतस्वभावः, तद्वत्ततस्तभावासिद्धेरिति, तत्तत्कल्याणाक्षेपकानादितथामन्यताभावभाज एते इति स्वयंसम्बुद्धत्वसिद्धिः ५॥ . . पं०... विशिष्टेतरफलयोः परम्पराहेत्वोरपि विशिष्टफलस्येतरफलस्य च परम्पराहेंतो:-व्यवहितकारणस्य, किं पुनरनन्तरकारणस्येत्यपिशब्दार्थः 'भेदात्' परस्परविशेषात्, कुत इत्याह-'एतदभावे' परम्पराहेत्वोमैदाभावे 'तद्विशिष्टेतरत्वानुपपत्तेः' तस्य-फलस्य यद्विशिष्टत्वमितरत्वं चाविशिष्टत्वं तयोरयोगाद्, एतदेव भावयतिभगवद्बोधिलाभो हि 'परम्परया' अनेकभवव्यवधानेन 'भगवद्भावनिवर्तनस्वभावो' भगवद्भाव:-तीर्थकरत्वं, व्यतिरेकमाह- 'न तु' न पुनः अन्तकृत्केवलिबोधिलाभवत्' अन्तकृतो-मरुदेव्यादिकेवलिनो बोधिमाभ इव 'अतत्स्वभावो' भगवद्भावानिर्वर्तनस्वभावः, एतदपि कथमित्याह-तद्वदिति तस्मादिवान्तकृत्केवलिबोधिलाभादिवत् 'ततः' तीर्थकरबोधिलाभात 'तभावासिद्ध तीर्थकरभावासिद्धरिति 'स्वयंसम्बद्धत्वसिद्धिः' । 80
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy