SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका तत्प्रकर्षवांस्तु वीतरागो न चैव पतीबियस्तरप्रकर्षवान्, भावपूजायाः प्रधानत्वात् तस्याश्च प्रतिपत्तिरूपत्वाद्, पं०...'न चैवं पठतीति' एवमिति प्रार्थनं, नमस्तीर्थायेति निराशंसमेव तेन पठनात्, टी०...उत्कृष्टोत्कृष्टभावनमस्कारस्य स्वामी (अधिकारी) वीतराग एव (उपशांतमोह क्षीणमोहसयोगिकेवल्यादि वीतरागः) ("बिति अणासंसं चिय तित्थस्स नमोति उपशमजिणाइ । अविगलआणापालणपहाणपडिवत्तिपूयपरा" "तुरिय भेद पडिवत्ति पूजा, उपशम खीण सयोगीरे, चउहा पूजा इम उत्तरज्झयणे, भाषी केवल भोगी रे। आनंद. चो. सुवि. स्त." यदुक्तमुत्तराध्ययनेषु "अरहंता तित्थयरा, तेसिं चेव भत्ती कायव्वा, सा पूआ वंदणाइहिं भवई, पूमि पुप्फामिसथुईपडिवत्तिभेयओ चउन्विहंपि जहासत्तीए कुज्जा"-उ.सू.सम्य.प.अध्य.) . किञ्च वीतरागस्तु भावनमस्कारलाभफलकप्रार्थनार्थकं 'अस्तु' इति पदं न वदति परन्तु 'नमस्तीर्थाय' तीर्थाय नमोऽस्ति तादृशार्थवाचकपदं निराशंसं वदति, 'अस्तु' इति पदं न प्रयुङक्ते, परन्तु 'अस्ति' इति क्रियापदमध्याहारेण गृह्यते. तथा च वीतरागभिन्नोऽन्य आत्मा, प्रकृष्टभावनमस्कारवान् नास्त्येव, यतः सर्वपूजासु भावपूजायाः प्रधानत्वं वर्तते भावपूजैव प्रतिपत्तिरूपाऽस्ति, अविकलाज्ञापालनरूपाऽथवा निष्कषायवृत्तिः, चतुर्थी प्रधानरूपा प्रतिपत्तिपूजा कथ्यते. अथ चतुर्धा पूजायाः स्वमतसिद्धत्वेऽपि जैनमतभिन्नानां परेषां साक्षित्वपूर्वकं कथयतिउक्तं चाऽन्यरपि-"पुष्पामिषस्तोत्रतिपत्तिपूजानां यथोत्तरं प्राधान्यं" प्रतिपत्तिश्च वीतरागे, पं०..'पुष्पामिषस्तोत्रपूजानामित्यादि' तत्रामिषशब्देन मांसभोग्यवस्तुरुचिरवर्णादिलाभसञ्चयलाभरुचि ररूपादिशब्दनृत्यादिकामगणभोजनादयोऽर्था यथासम्भवं प्रकृतभावे योज्याः, देशविरती चतुर्विधाऽपि सरागसर्वविरतौ तु स्तोत्रप्रतिपत्ती द्वे पूजे समचिते, भवतु नामवं यथोत्तरं पूजानां प्रधान्यं, तथापि वीतरागे का सम्भवतीत्याह-'प्रतिपत्तिश्च वीतरागे ईति' प्रतिपत्तिः, अविकलाप्तोपदेशपालना 'चः' समुच्चये वीतरागें-उपशान्तमोहादौ पूजाकारके । . टो०...किञ्चान्यैरप्युक्तं हि पुष्पपूजातो नैवेद्यपूजा प्रधाना, नैवेद्यपूजातः स्तोत्रपूजा प्रधाना, स्तोत्र पूजातः प्रतिपत्तिः प्रधाना, उत्तरत्वेन पूजायाः प्रधानत्वेन उत्तरोत्तरपूजा प्रधाना, पूर्वपूर्वपूजा, अप्रधानेति कथ्यते. यद्यप्यामिषशब्दस्यानेकार्थसम्भवेऽपि नैवेद्यपूजारूपोऽर्थ एक एवोपयुज्यते, श्रावकत्वे द्रव्यपूजाभावपूजयोरधिकारित्वेन पुष्पादिका चतुर्विधा पूजा युक्ता. साधुत्वे द्रव्यपूजाया अनधिकारित्वेन भावपूजाया एवाधिकारित्वेन स्तोत्रप्रतिपत्तिपूजाद्वयं युक्तिमद्, अविकलाप्तोपदेशपालनरूपा प्रतिपत्तिस्तु वीतराग एवेति. 51
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy