SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकारपरम्परापरिचयः ॥ ७०५ मुनि श्री भद्रंकरविजयजी विरचितो ग्रन्थप्रशस्तिरूपः ___(&ाख २१.पू.भा.मरसूरीश्वर म...) . ग्रन्थकारपरम्परापरिचयः ॥ शक्रेश्रेणीमुकुटमाणभिः स्पृष्टपादारविन्दः, स्याद्वादीशश्चरमजिनपो वर्धमानः श्रियोढः । ज्ञानानन्त्यो यतिततिलतापूर्वबीजं विरागः, भूयाद्भूत्यै सुकृतिकृतिनां शासनाधीश्वरोऽसौ ॥ १॥ तत्पट्टाभ्रे हिमरुगिव यो भासते कान्तकान्तिः, विद्याम्भोधिः प्रथितगणभृत्पञ्चमः संयताक्षः । प्रातये॒यस्त्रिदिवपतिवत्सत्सुधर्माश्रितः सः, हर्षाय स्तात्सहृदयहृदां श्रीसुधर्मेशिता वै ॥ २ ॥ जम्बूः कम्बूज्ज्वलतरयशास्तत्सुपट्टाब्जपूषा, नव्योढाभिर्जितसुभगतास्वर्गरम्भोर्वशीभिः । जहे स्त्रीभिः सुदृढमनसो यस्य यूनो मनो नो, वात्याभिर्वो वितरतु यथा मेरुकूटं स सौख्यम् ॥ ३ ॥ तत्पट्टप्राक्शिखरिरवयः श्रीलजम्बूपदेशाद्, दीक्षां प्राप्ताः प्रभवविभवो येऽभवन्पान्तु ते वः । अर्हन्मूल् कुमततिमिरं सूर्यदीप्त्येव नष्टुं, तत्पट्टेशोऽवस्तु सुमनसो यस्य शय्यम्भवः सः ॥ ४ ॥ ततो यशोभद्रगुरुर्बभूव, तत्पट्टशुद्धाम्बरपुष्पदन्तौ । सम्भूतविद्वन्मणिभद्रबाहू, उभावभूतां कुमताब्जराहू ॥ ५ ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy