SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ द्वितीय भाग / सूत्र - ६-७-८, तृतीय: किरणे 1 वैपरीत्येनेति । यो नैर्ग्रन्थ्यं प्रति प्रस्थितोऽनियतेन्द्रियः कथञ्चित्किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धिसमितिभावनातपः प्रतिमादिषु विराधयन् सर्वज्ञाज्ञोल्लंघनमाचरति स आसेवनाकुशील इत्यर्थः, आसेवनाप्रतिसेवनापदयोरेकार्थतयाऽऽहायमेवेति आसेवनाकुशील एवेत्यर्थः, कषायकुशीलमाह संज्वलनेति, यस्य तु संयतस्यापि सतः कथञ्चित्संज्वलनकषाया उदीर्यन्ते सकषायकुशील इत्यर्थः ॥ ६८७ કુશીલભેદોનું વર્ણન भावार्थ – “विपरीतताथी संयमनो आराध से 'आसेवनाडुशील' ख ४ 'अतिसेवनाडुशील' કહેવાય છે. સંજ્વલન ક્રોધ આદિના ઉદયથી નિંદિત ચારિત્રવાળો ‘કષાયકુશીલ' કહેવાય છે.” વિવેચન – જે, નિર્પ્રન્થતા પ્રત્યે પ્રસ્થાન કરનારો છે. અનિયમિત ઇન્દ્રિયવાળો, કોઈ પણ રીતે કાંઈક જ (થોડી જ) ઉત્તરગુણરૂપ પિંડવિશુદ્ધિ-સમિતિ-ભાવના-તપ-પ્રતિમા વગેરેમાં વિરાધના કરતો, સર્વજ્ઞની આજ્ઞાનું ઉલ્લંઘન કરે છે, તે ‘આસેવનાકુશીલ’ કહેવાય છે. આ જ-આસેવનકુશીલ જ પ્રતિસેવનાકુશીલ કહેવાય છે. જે સંયતને પણ કથંચિત્ સંજ્વલન કષાયો ઉદીરિત-ઉદિત થાય છે, તે ‘કષાયકુશીલ’ છે. - पुनस्तस्य प्रकारान्तरमाह द्विविधोऽपि स पञ्चविधः । ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् । ज्ञानदर्शनचरणतपसां वैपरीत्येनाऽऽसेवकाश्चत्वारः प्रतिसेवनाकुशीलाः । शोभनतपस्वित्वप्रशंसाजन्यसंतोषवान् यथासूक्ष्मप्रतिसेवनाकुशीलः ॥ ८ ॥ द्विविधोऽपीति । आसेवनाकषायभेदेन द्विभेदोऽपीत्यर्थः तथा च प्रतिसेवनाकुशीलः पञ्चविधः, कषायकुशीलोऽपि पञ्चविध इत्यर्थः । आद्यान् चतुर्विधानेकग्रन्थेन लाघवादाह ज्ञानदर्शनचरणतपसामिति, यो हि ज्ञानं ज्ञानाचारं वैपरीत्येनासेवते स ज्ञानप्रतिसेवनाकुशीलः, ज्ञानाचारोऽष्टविधः, कालविनयबबहुमानोपधानानिह्नवव्यञ्जनार्थतदुभयभेदात् । ज्ञानपदेन श्रुतं विवक्षितं यो यस्यांगप्रविष्टादेश्श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव काले स्वाध्यायः कर्त्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टञ्च लोकेऽपि कृष्यादेः काले करणे फलं विपर्यये तु विपर्यय इति, एवमनाचरणे प्रायश्चित्तमस्ति, तथा श्रुतग्रहणं कुर्वता गुरोर्विनयः कार्यः, विनयोऽभ्युत्थानपादधावनादिः, विनयहीनं हि तदूषरोप्तबीजमिव विफलं भवति, तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमान: कार्य:, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सत्यक्षेपेणाधिकफलं श्रुतं भवति, अङ्गोपाङ्गानां सिद्धान्तानां पठनाराधनार्थमाचाम्लोपवासनिर्विकृत्यादिलक्षणस्तपोविशेष उपधानम् । न निह्नवोऽपलापः अनिह्नवः, यतोऽधीतं तस्यानपलापः, यतोऽनिह्नवेनैव पाठादि
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy