SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ ६६२ तत्त्वन्यायविभाकरे तत ऊर्ध्वमिति । अनुत्तरादूर्ध्वमित्यर्थः काऽस्तीत्यत्राह - ईषत्प्राग्भाराभिधानाऽष्टमी पृथिवीति, ईषदल्पो रत्नप्रभाद्यपेक्षया प्राग्भार उच्छ्रायादिलक्षणो यस्याः सा ईषत्प्राग्भारा, ऊर्ध्वलोकाग्रस्था सिद्धानां निवासभूताऽष्टमी पृथिवीत्यर्थः । द्वादशयोजनादिति, सर्वार्थसिद्धविमानस्य द्वादशभिर्योजनैरूर्ध्वं वर्त्तमानेत्यर्थः । अस्या विस्तारमाह पञ्चचत्वारिंशदिति, आयामविष्कम्भाभ्यामिति बोध्यम् । मनुष्यक्षेत्रपरिमाणमिदं बोध्यम्, मध्य इति बहुमध्यदेशभाग इत्यर्थः, उच्चैस्त्वमाहाष्टयोजनाबाहल्येति, तर्हि सर्वासु दिक्षु विदिक्षु च कथमित्यत्राहान्त इति परितः प्रान्तभाग इत्यर्थः, मध्यतः प्रदेशहान्या परिहीयमाणां सर्वेषु चरमान्तेषु मक्षिकापत्रतोऽप्यतितन्वी बाहल्येनाङ्गुलासंख्येयभागमितेति भावः । पृथिव्या अस्या आकारमाहोत्तानातपत्राकारेति, उत्तानीकृतच्छत्रसंस्थानवत्संस्थितेत्यर्थः घृतपूर्णतथाविधकरोटिकाकारा वा बोध्या । अस्याः स्वरूपमाह स्वच्छस्फटिकरूपति, निर्मलस्फटिकमृणालचन्द्रकरजस्तुषारहिमगोक्षीरहारवर्णा श्वेतसुवर्णमयीति भावः । अस्या नामधेयान्तरमाह सिद्धशिलापराभिधानेति, सिद्धिक्षेत्रस्य प्रत्यासन्नतयोपचारात्सिद्धानां शिलाऽऽधारभूता सिद्धशिला, तथा लोकाग्रस्तूपिका सर्वेषां प्राणभूतजीवसत्त्वानामुपद्रवकारित्वाभावात्सर्वप्राणभूतजीवसत्त्वसुखावहा मुक्तानामाश्रयत्वान्मुक्तालयत्वादिनामानि भाव्यानि ॥ " સિદ્ધક્ષેત્રનું વર્ણન ભાવાર્થ – “તેનાથી બાર યોજન ઉંચે ૪૫ લાખ જોજન પરિમાણવાળી અને મધ્યમાં ૮ જોજન भडार्धवाणी, अंतमां भक्षिला (भा) नी पांजनी भाई शतर (अत्यंत पातजी) छत्तान्यता-छत्रना આકારવાળી, ઇષત્પ્રાક્ભારા નામવાળી અને સ્વચ્છ સ્ફટિક રૂપવાળી સિદ્ધશિલારૂપ બીજા નામવાળી पृथिवी छे.” વિવેચન – અનુત્તરથી ઉંચે ઇષામ્ભારા નામની આઠમી પૃથિવી છે. ઇષામ્ભારા એટલે રત્નપ્રભા આદિની અપેક્ષાએ અલ્પ છે. ઉચ્છ્વાય (ઉંચાઈ) આદિ રૂપ પ્રાભાર જે પૃથિવીના છે, તે ઇષામ્ભારા કહેવાય છે. આઠ યોજન જાડાઈ, ૪૫ લાખ જોજન વિધ્વંભથી (ઇષત્ એટલે અલ્પ છે. પ્રાક્ભાર એટલે પુદ્ગલસમુદાય જે પૃથ્વીનો છે, તે ઇષાભારા આઠમી પૃથ્વી છે. ખરેખર, રત્નપ્રભા આદિ શેષ પૃથિવીઓ મહા પ્રાક્ભારરૂપ છે, કેમ કે-એક લાખ એંસી હજાર જોજનની જાડાઈ છે. ઊર્ધ્વ ચૂડા (શિખર-ચોટી) સમાન આ ઇષતુપ્રાક્ભારા છે.) ઊર્ધ્વલોકના અગ્રભાગમાં રહેલી, સિદ્ધોના નિવાસભૂત આઠમી પૃથિવી છે. १. ईषद् अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भारः पुद्गलनिचयो यस्याः सेषत्प्राग्भारा अष्टमी पृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्याः महाप्राग्भारा : अशीत्यादिसहस्त्राधिकयोजनलक्षबाहल्यत्वात् ऊर्ध्वलोकस्य चूडाकल्पेयमिति ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy