SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे सन्मानादिकमहमेव लभेयं नापर: प्रयत्नवानपि इति स्वलाभेन माद्यन्ति सकलजनवल्लभतां प्राप्तोऽहमयमपरो न कस्मैचिद्रोचते वचनमप्यस्य नाद्रियन्ते इति सर्वोऽप्यय लाभमदो निग्रहीतव्य एव, लाभान्तरायकर्मोदयादलाभस्तत्क्षयोपशमाच्च सत्कारादिलाभ:, संसारे परिभ्रमतो जीवस्य कादाचित्को न शाश्वतः कर्मतन्त्रत्वात्संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः । वीर्यं पराक्रमः, तन्मदोऽपि विचारात्त्याज्यः, वीर्यान्तरायक्षयोपशमाद्वीर्यस्य प्रादुर्भावः, संसारानुबन्धिस्तस्य कषायरूपत्वेनाशाश्वतत्वान्न तन्मदः कार्यः, बलिनोऽपि हि पुरुषा नैर्बल्यमुपन्यतो दृश्यन्ते निर्बलाश्च बलवन्तस्तथा व्याधिजराप्रभृतिषूद्भूतबलेषु चक्रवर्त्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः किमुतान्ये जना इति वीर्यमदाद्वयुपरमः श्रेयानिति । अहम्भाव इति मद इत्यर्थः । मार्दवविरोधीति, मदस्थानैरेभिरष्टभिर्मत्तः परात्मनिन्दाप्रशंसाभिरतस्तीव्रतराहङ्कारोपहतमना इहामुत्राशुभफलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते तस्मादेते श्रमणधर्मस्य मार्दवस्य विघातका इति भावः । अत इति, यत एते मार्दवविरोधिनोऽत एवेत्यर्थः, ततो निवर्त्तेतेति, एषां मदस्थानानां निग्रहो विधेय इत्यर्थः ॥ ५५२ १ માર્દવના સ્વરૂપનું વર્ણન ભાવાર્થ – “ગર્વથી રહિતનું, શ્રેષ્ઠો પ્રત્યે અભ્યુત્થાન આદિ દ્વારા વિનયનું આચરણ, એ ‘માર્દવ’ हेवाय छे. भति- ३५ - खैश्वर्य-डुल-तय- श्रुत-साल-अणविषयोभां अहंअर भावविरोधी छे. मेथी तेनाथी जटवुं भेजे." વિવેચન – ચિત્તનો વિશિષ્ટ પરિણામ ગર્વ કહેવાય છે. તે ગર્વથી રહિતનું, આચાર્ય આદિ શ્રેષ્ઠો પ્રત્યે यथायोग्य अभ्युत्थान-खासन आहिथी शिस्तनुं पालन, से 'भाव' महनो निग्रह (नम्रता) उडेवाय छे. ખરેખર, મદ, જાતિ આદિ જન્મ અહંકાર કહેવાય છે, જે અહંકારના આવિર્ભાવથી આ જાતિ આદિ મદો પ્રગટ થાય છે અને જે મદનો નિગ્રહ એટલે મદના ઉદયનો નિરોધ અથવા ઉદય પામેલ મદનું નિષ્ફળપણું કરવું છે, તે મદના ઉદયના ઘાતમાં મદનો વિનાશ અવશ્યભાવી છે. ૦ ખરેખર, માર્દવ હોયે છતે જીવ અહંકારના અભાવને પામે છે. તેથી સકળ ભવ્ય જનના મનના સંતોષનો હેતુ હોવાથી કોમળ અર્થાત્ દ્રવ્યથી અને ભાવથી સરળ થાય છે. તેવો હોતો આઠ મદના સ્થાનોને १. वीर्यं द्विविधं औदयिकभावनिष्पन्नस्य कर्म, औदयिकोऽपि भावः कर्मोदयनिष्पन्न एव बालवीर्यम् वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्यं, चारित्रमोहनीयोपशमक्षयोपशमजनितञ्च पण्डितवीर्यमिति । आभ्यां नानाविधक्रियासु प्रवर्त्तमानमुत्साहबलसम्पन्नपुरुषं दृष्ट्वा वीर्यवानयमिति व्यपदिश्यते तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयमिति च व्यपदिश्यत इति ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy