SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५४२ तत्त्वन्यायविभाकरे 1 1 अन्यत्र पातयेत्तथा परितापयेत् । तस्मादीर्यासमितेनावश्यंभवितव्यंम् । आर्त्तरौद्रध्यानपरिहारेण धर्मध्यान उपयोगो मनस्समितिः, वधेन बन्धेन परितापेन नृशंसं न किञ्चन कर्म कदापि मनसाऽल्पमपि ध्यातव्यमनेन प्रकारेण मनस्समितियोगेन जीवश्चित्तसत्प्रवृत्तिलक्षणव्यापारेण वासितो भवति । एवं वचसापि प्राणिनां परितापादिकारिणा न भणितव्यम् । किन्तु साधुना तत्र समितेन भवितव्यम् । उपधिप्रभृतीनामागमानुसारेण निरीक्षणप्रमार्जनरूपाऽऽदानसमितिः । संयतेन हि सदा प्रत्युपेक्षणप्रस्फोटनाभ्यां प्रमार्जनया च भाजनवस्त्रादिकं निक्षेप्तव्यं ग्रहीतव्यञ्च । सनियममाहारादीनां प्रत्यवेक्षणरूपा पञ्चमी भावना, एभिः पञ्चभिर्भावनाविशेषैरहिंसापालनहेतुभिस्सदा स्वस्थचित्तेनासेवितमहिंसालक्षणं व्रतमनाश्रवस्योपायः द्वितीयव्रतस्य क्रोधलोभभीरुत्वहास्यप्रत्याख्यानानि आलोच्यभाषणमिति पञ्च भावनाः । क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयात्, लोभपरवशश्चार्थाकांक्षया, भयार्त्तः प्राणादिरक्षणेच्छया, हसन् कौतुकेनेति तत्प्रत्याख्यानानि चतस्रो भावनाः, सम्यग्ज्ञानपूर्वकं पर्यालोच्य मिथ्या मा भूदिति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना । तृतीयव्रतस्य विचिन्त्यावग्रहयाचना, पुनः पुनरवग्रहयाचना, अवग्रहधारणम्, साधर्मिकेभ्योऽवग्रहयाचनमनुज्ञापितपानान्नग्रहणमिति पञ्च भावना:, तत्र देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदभिन्नावग्रहेषु पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधक इति सञ्चिन्त्य यः स्वामी स एव याच्योऽस्वामियाचने तु दोषबाहुल्यक्तमित्येवं विचिन्त्यावग्रहयाचनं प्रथमा । सकृद्दत्तेऽप्यवग्रहे स्वामिना भूयोऽवग्रहयाचनं कार्यं, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थासु मूत्रपुरीषोत्सर्गपात्रकर चरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहार्थं याचनीयानि एवं याञ्चामाचरन्नादत्तादानजनितेनागसा स्पृश्यत इति द्वितीया । एतावन्मात्र परिमाणमेव क्षेत्रादि ममोपयोगि नाधिकमित्यवग्रहस्य धारणमिति तृतीया । एवमवग्रहधारणे हि तदभ्यन्तरवर्त्तिनीमूर्ध्वस्थानादि क्रियामासेवमानो न दातुरुपरोधकारी १. ईर्यायामकृतेऽवधाने प्राणिनोऽभिहन्यात् पादेन ताडयेदन्यत्र प्राणिनः पातयेत् पीडामुत्पादयेज्जीविताद्वय - परोपयेत् तथा च कर्मोपादानत्वातत्र समितेन भाव्यम्, तथा चेर्यासमित्या भावितान्तरात्मा जीवो मालिन्यमात्ररहितत्वात् विशुद्धयमानपरिणामत्वादक्षतचारित्रत्वान्मृषावादाद्युपरमान्मोक्षसाधको भवतीत्येवं सर्वत्र भावनीयम् ॥ २. मृषावादविरतिलक्षणस्य संवरस्य गुरुसमीपे प्रयोजनमाकर्ण्य हेयोपादेयवचनैदम्पर्यं सम्यग्ज्ञात्वा विकल्पव्याकुलतारहितो वचन चापल्यं विहायार्थतः कटु शब्दतः पुरुषं साहसमतर्कितं परस्य जन्तोः पीडाकरं सावद्यं वचनं न भाषेत । किन्तु सद्भूतार्थं पथ्यं परिमिताक्षरं प्रतिपाद्यविवक्षितार्थप्रतीतिजनकं वचनदोषरहितं उपपत्तिभिरबाधितं पूर्वं बुद्ध्या पर्यालोचितमवसरे भाषेत । एवं सति संयतकरचरणनयनवदनशूरः सत्यार्जवसम्पन्नो भवति ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy