________________
४७८
तत्त्वन्यायविभाकरे सम्यग्दर्शनव्यवस्थानाज्जिनमतस्य सर्वनयसमूहात्मकत्वात् । न ह्येकस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणां मध्य इदं वस्त्वपरन्त्ववस्त्विति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपि तेषामेकत्वात् । तथा वस्तुप्रत्ययहेतुत्वान्नाम वस्तुधर्मः, यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मो यथा घटस्य स्वधर्मा रूपादयः, यच्च यस्य धर्मो न भवति न तत्तस्य प्रत्ययहेतुर्यथा घटस्य धर्माः पटस्य, भवति च घटाभिधानाद्धटस्य सम्प्रत्ययः । सर्वेषां वस्तूनाञ्च नामरूपत्वाव्यभिचारान्नानैकान्तिकत्वम् । यद्ध्यभिधानरहितं तद्वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनावाच्यष्षष्ठभूतलक्षणो भावः । अवस्तुत्वे तु कुतस्तत्प्रत्ययहेतुत्वस्य हेतोर्वृत्तिः स्यात्, तत्र तद्वृत्तौ वा तस्यापि वस्तुत्वमेव भवेत्, स्वप्रत्ययजनकत्वाद्धटादिवदिति । न च नद्यास्तीरे पञ्च फलानि सन्तीति शब्दश्रवणसमनन्तरं प्रवृत्तस्य कस्यचिद्वस्त्वप्राप्तेरवस्तुधर्मता तस्येति वाच्यम्, प्रत्यक्षादिप्रमाणानामपि तत्प्रसङ्गात्, तेभ्योऽपि प्रवृत्तस्य कदाचिद्वस्त्वप्राप्तेः । नचाबाधितप्रमाणेभ्यः प्रवृत्तावस्त्येवार्थप्राप्तिरिति वाच्यम् । सुविवेचितादाप्तशब्दादपि वस्तुप्राप्तेरवश्यम्भावादिति । एवं यदस्ति तत्सर्वमाकारमयमेव, यथा मतिशब्दवस्तुक्रियाफलाभिधानानि । यत्त्वनाकारं तन्नास्त्येव, यथा वन्ध्यापुत्रादिः, मतिर्हि ज्ञेयाकारग्रहणपरिणतत्वादाकारवती, अन्यथा नीलस्येदं संवेदनं न पीतस्येति नैयत्यं न स्यात्, नियामकाभावात् । नीलाद्याकारो हि नियामको यदा स नेष्यते तदा नीलग्राहिणी मतिर्न पीतग्राहिणीति कथं व्यवस्थाप्येताविशेषात् । शब्दोऽपि पौद्गलिकत्वादाकारवानेव । क्रियाऽप्युत्क्षेपणादिरूपा क्रियावतोऽनन्यत्वादाकारवत्येव, फलमपि कुलालादिक्रियासाध्यं घटादिकं मृत्पिडादिवस्तुपर्यायरूपत्वादाकारवदेव; अभिधानमपि शब्दस्तस्याकारवत्त्वमुक्तमेव । तथा द्रव्यात्मकञ्च सर्वमुत्फणविफणकुण्डलिताकारसमन्वितसर्पवद्विकाररहितस्याविर्भावमात्रपरिमाणस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात्, न ह्यपूर्वं किञ्चिदुत्पद्यते, छन्नरूपतया विद्यमानस्यैवाविर्भावात्, नाप्याविर्भूतं सद्विनश्यति, छत्ररूपतया तिरोभावस्यैवाऽऽसादनात् । तथा चाविर्भावतिरोभावरूपपरिणाम एव कार्योपचाराद्रव्यस्य चोपचरितकारणत्वेनोत्पादव्ययरहितं
१. भिन्नवस्तुनि भिन्नकाले विद्यमानानां पर्यायाणां तथा वक्तुं शक्यत्वादेकस्मिन्नेव वस्तुन्येककालमिति । शक्यत इति, विनिगमनाविरहात्सर्वस्यैव वस्तुत्वं सर्वस्यैवावस्तुत्वं वा भवेदिति भावः । चतूरूपाविनाभूतत्वे च विनिगमकमाह द्रव्यरूपतयेति । ननु वस्तुधर्मत्वमेव तेषां न सम्भवति कुतो द्रव्यरूपतयैकरूपत्वमित्यत्राह तथेति ॥ २. यदि नाम वस्तुधर्मो न स्यात्तदा घटशब्दे प्रोक्तं श्रोतुः किमयमाहेति संशय एव स्यान्न तु घटप्रतिपत्तिः घटप्रतिपत्तिरूपो वा विपर्ययः स्यात्, न जाने किमप्यनेनोक्तमितिचित्तव्यामोहेन वस्त्वप्रतिपत्तिरूपो वाऽनध्यवसायो भवेत्, कदाचिद्घटस्य कदाचित्पटस्य कदाचिच्च स्तम्भादेर्वा बोधः स्यादित्यपि बोध्यम् ॥ ३. एवञ्चोत्पादव्ययध्रौव्ययुक्तं सत्, गुणपर्याययवद्रव्यमित्यनयोन पौनरुक्त्यम् । अत एव चात्र न विरोधोऽन्यथा द्रव्यस्योत्पादव्ययात्मकत्वे तद्रहितत्वोक्तिविरुद्धयेतेति ॥