SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४७५ द्वितीयो भाग / सूत्र - २४, नवमः किरणे स्मरणमप्युनुपकारि स्यात्, नाम्नः पुद्गलात्मकत्वेनात्मानुपकारित्वात् । न च नाम्नः स्मरणेन नामिस्मरणे तद्गुणसमापत्त्याऽस्ति फलमिति वाच्यम्, भगवत्प्रतिमादर्शनादपि सकलातिशायिभगवद्गुणध्यानस्य सुतरां सम्भवात् । सिद्ध एव च बहूनां प्रतिमादर्शनाद्बोध्युदयोऽपि । न च नाम्नो नामिना सह वाच्यवाचकभावसम्बन्धोऽस्ति न स्थापनाया इति विशेष इति वाच्यम्, इतरनिक्षेपानिरूपकेण भावनिक्षेपेण सह नामस्थापनयोस्सम्बन्धाविशेषात् । वाच्यवाचक भावसम्बन्ध एव ग्राह्यो न स्थाप्यस्थापकभाव इत्यत्र विनिगमकाभावात्, तस्मात्त्वया नामस्थापनाद्वयमेव भगवदध्यात्मोपनायकत्वाविशेषण वन्द्यं स्यात् द्वयमेव वा त्याज्यं स्यात्, अन्तरङ्गप्रत्त्यासत्यभावस्य तुल्यत्वात्, न चैतदिष्टम्, परेणापि नाम्नोऽङ्गीकारात् । तथा च स्थापना यद्यवन्द्या स्यात्तदा नामाप्यवन्द्यं स्यादिति विपर्यपर्यवसायकस्तर्कः, भावनिक्षेपो यद्यवन्द्यस्थापनानिक्षेपप्रतियोगी स्यादवन्द्यनामनिक्षेपप्रतियोग्यपि स्यादित्य-निष्टप्रसञ्जकस्तर्को बोध्यः । तथा च निक्षेप्यमाणभावार्हतोऽभेदबुद्धेर्नामादित्रयमेव कारण-मागमप्रामाण्यात्स्वानुभवाच्च । एतेन भावनिक्षेपाध्यात्मोपनायकत्वेन नामादिनिक्षेपत्रयस्याहत्प्रतिमास्थापनानिक्षेपस्वरूपत्वेनानादृतवतां भावनिक्षेपं पुरस्कुर्वतां मतं व्युदस्तम् । निक्षेपत्रयानादरे भावोल्लासस्यैव कर्तुमशक्यत्वात्, शास्त्र इव नामादित्रये हृदयस्थिते सति भगवान् पुर इव परिस्फुरति, हृदयमिवानुप्रविशति, तन्मयीभावमिवापद्यते, तेन सर्वकल्याणसिद्धिस्तस्माद्भावोल्लासस्तदधीनो नहि नैसर्गिक एव भावोल्लास इत्यस्ति जैनमत एकान्तः, सर्वव्यवहारविच्छेदप्रसङ्गात् । न च भावार्हद्दर्शनं भव्यानां यथा स्वगतफलं प्रत्यव्यभिचारि न तथा निक्षेपत्रयप्रतिपत्तिरिति तदनादर इति वाच्यम्, स्वगतफले स्वव्यतिरिक्तभावनिक्षेपस्याप्यव्यभिचारित्वाभावात, नहि भावार्हन्तं दृष्ट्वा भव्या अभव्या वा प्रतिबुद्ध्यन्त इति । स्वगतभावोल्लासनिमित्तत्वन्तु समानं निक्षेपचतुष्टयेऽपि एतेन स्वगताध्यात्मोपनायकतागुणेन वन्द्यत्वमपि चतुष्टयाविशिष्टमेव । शिरश्चरणसंयोगरूपवन्दनस्य भावभगवतोऽपि शरीर एव सम्भवात्, न त्वरूपे भावभगवति, आकाश इव तदसम्भवात् । भावसम्बन्धाच्छरीरसम्बद्धं वन्दनं भावस्यैवाऽऽयातीति तु नामादिष्वपि तुल्यमेव । न च महानिशीथे भावाचार्यस्य तीर्थकृत्तुल्यत्वमुक्तमतो निक्षेपत्रयस्याकिञ्चित्करत्वमिति भावनिक्षेपं पुरस्कुर्वतां कोऽपराध इति वाच्यम्, तद्वचनस्य परमशुद्धभावग्राहिनिश्चयनयविषयत्वात्, यन्मते ह्येकस्यापि गुणस्य त्यागे मिथ्यादृष्टित्वमिष्यते तन्मते निक्षेपान्तरानादरेऽपि नैगमादिनयवृन्देन नामादिनिक्षेपाणां प्रामाण्याभ्युपगमात्क इव व्यामोहो भवतः, सर्वनयसम्मतस्यैव शास्त्रार्थत्वात्, अन्यथा सम्यक्त्वचारित्रैक्यग्राहिणा निश्चयनयेना
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy