________________
द्वितीयो भाग / सूत्र - ९, नवमः किरणे
४३५
૦ ગૌણભૂત વ્યવહારો અને તે તે વ્યાવૃત્તિરૂપ વિશેષો નૈગમ અને વ્યવહારનયને ઈષ્ટ છે. આ નૈગમવ્યવહારરૂપ ઉભય નયની અપેક્ષાએ સ્વવિષયના ઉત્કર્ષના અભિમાનવાળા સંગ્રહથી તો તે વ્યવહારો અને વિશેષો ઇષ્ટ નથી. તથાચ નૈગમ અને વ્યવહારનયને સંમત ઉપચાર અને વિશેષના અવલંબન વગરના હોવાથી આ સંગ્રહનયનું શુદ્ધપણું છે. સ્વસમય (સિદ્ધાન્તોમાં ઉચિત ઉપચાર(વ્યવહાર) અને વિશેષનું ક્વચિત્ અવલંબનની અપેક્ષાએ પણ તે સંગ્રહાયનું શુદ્ધપણું ખંડિત થતું નથી, એમ વિચારવું.
श्रीवादिदेवसूरिसूत्रावलम्बनेन व्यवहारनयस्य लक्षणमाह -
प्रतिषेधपरिहारेण सङ्ग्रहविषयीभूतार्थविषयकविभागप्रयोजकाभिप्रायो व्यवहारनयः । यथा सत्त्वधर्मेणैकतया सङ्ग्रहीतस्य सतो द्रव्यपर्यायाभ्यां विभागकरणाभिप्रायो यत्सत्तद्विधा, द्रव्यं पर्यायश्चेति । एवं द्रव्यत्वेन सहीतस्य द्रव्यस्य धर्मादिरूपेण षोढा विभागकरणाभिप्रायो यद्व्यं तद्धर्मादिरूपेण षोढेति ॥९॥
प्रतिषेधपरिहारेणेति, सुनयीकरणायैतत् । सङ्ग्रहगृहीतान् सत्त्वाद्यर्थानुपेक्ष्य तद्विभजनाविषयो योऽभिप्रायस्स व्यवहारनय इत्यर्थः, परसामान्यमवलम्ब्य तद्विभागाभिप्रायं निदर्शयति यथेति, अपरसामान्यमवलम्ब्य तमाहैवमिति । “वञ्चइ विणिच्छिअत्थं ववहारो सव्वदव्वेसु". ति नियुक्तिप्रतीकानुसाराद्विनिश्चतार्थप्रापकत्वं व्यवहारस्य लक्षणं लभ्यते, विशेषेणावहियते निराक्रियते सामान्यमनेनेति निरुक्त्यनुसारात् । विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् जलाहरणाधुपयोगिनो घटादिविशेषानेवायमङ्गीकरोति नतु सामान्यम्, गां बधानेत्याधुक्ते गोत्वबन्धनाद्यध्यवसायस्य कस्याप्यनुदयात् । न च कथं गोष्वनुगतव्यवहार इति वाच्यमन्यापोहादिनापि तदुपपत्तेः शब्दानुगमादेवानुगतव्यवहारोपपत्तेश्च । “लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार" इति तत्त्वार्थभाष्यानुरोधात्तु शब्दतदुपजीविप्रमाणातिरिक्त प्रमाणपक्षपाती गौणीवृत्त्याऽतिशयेन व्यवहारकरः नानाव्यक्तिकशब्दसङ्केतग्रहणप्रवणो यो बोधस्स व्यवहार इति तदर्थः, उपचारबहुलाध्यवसायवृत्तिनयत्वव्याप्यजातिमत्त्वन्तु लक्षणम् । उपचाराधिक्यं यथा गिरिदह्यते, अध्वा याति, कुण्डिका स्रवति, इत्यादौ प्रथमे गिरिपदस्य
१. यथा सत्यपि पञ्चवर्णादौ भ्रमरे कृष्णवर्णं एव लोकस्य निश्चयो भवति तस्माद्विनिश्चितार्थप्रापको व्यवहारनयः तस्यैव गमकत्वात्प्ररूपकत्वाच्च, स एव हि लोकव्यवहारनुकूलतया स्पष्टतमः, तस्माच्छेषवर्णादीनयं नयो मुञ्चतीति विनिश्चितार्थप्रापकत्वमस्य बोध्यम् ॥ २. उपचारबहुलाध्यवसायत्वमात्रस्य लक्षणत्वेऽनुपचरितव्यवहारेऽव्याप्तिरिति नयत्वव्याप्यजातिमत्त्वमुक्तं, तावन्मात्रस्य नैगमसङ्ग्रहादावपि सत्त्वाद्वृत्त्यन्तम्, अत एव नयत्ववत्त्वमुपेक्ष्य नयत्वव्याप्यजातिमत्त्वमुक्तं, क्वाचित्कोपचाराध्यवसायमादाय नैगमाद्यतिव्याप्तिवारणाय बहुलेति ॥