SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३०२ तत्त्वन्यायविभाकरे पटत्वादावेव, ते च पटत्वादयः विशेष्ये घटे न वर्तन्त इति पररूपा भवन्तीति भावः । तादृशप्रकारत्वाश्रयभिन्नत्वमानं तु न पररूपत्वं तस्य द्रव्यत्वादावपि सत्त्वेन पररूपत्वापत्तेरित्याह न तु तद्भिन्नत्वमात्रमिति, हेतुमाह द्रव्यत्वादीनामिति, ननु घटादिकमस्ति नास्तीति वदताऽस्तित्वं नास्तित्वञ्च वस्तुधर्मतयाऽभ्युपगतं भवेत् तत्कथमेकमेव घटादिकं वस्तु सच्चासच्चस्यात् सत्त्वस्यासत्त्वपरिहारेणासत्त्वस्य च सत्त्वपरिहारेण व्यवस्थितत्वात्, अन्यथा तयोरविशेषः स्यात्, तथा च घटादिकं यदि सत्तर्हि कथमसत्, यदि चासत् कथं सदेकत्र सदसत्त्वयोर्विरोधादित्याशंकायामाह घटादिनाञ्चेति, निरवच्छिन्नसत्त्वासत्त्वासत्त्वयोरप्रामाणिकत्वेन स्वरूपादिघटितमूर्तेरेव सत्त्वादेः प्रतीतेः घटादिकं वस्तु स्वरूपेणास्ति पररूपेण नास्तीत्येव वस्तुतत्त्वं, स्वरूपेणेव पररूपेणापि सत्त्वे घटोऽप्यघट: स्यात्, अघटस्वरूपपटादिवत्, पररूपेणेव स्वरूपेणाप्यसत्त्वे घटादिकं घटवस्त्वेव न स्यात् स्वस्वभावादिनाप्यसत्त्वात् खरविषाणवदिति इतरेतररूपापत्त्या पदार्थस्वरूपहानिप्रसङ्ग इति भावः, घटाद्यात्मकत्वञ्च स्वस्वभावादिरूपेण ग्रहणात्परस्वभावादिना व्यवच्छेदाच्च सम्भवति नान्यथेत्याशयेनाह स्वपरेति, न चैकत्र वस्तुनि सत्त्वमसत्त्वञ्च परस्परविरुद्धधर्मयोस्सामानाधिकरण्यायोगाद्युक्ति विरुद्धमिति वाच्यम्, स्वरूपपररूपाभ्यां विवक्षितयोस्तयोश्शीतोष्णस्पर्शवद्भिन्नाधिकरणत्वाप्रतीत्या विरोधासिद्धेः, तादृशयोस्तयोरेकाधिकरणत्वधीसद्भावात्, न च दृष्टेऽनुपपन्नं नाम, स्पष्टास्पष्टविषयतया भिन्नस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोरेकविषयत्वस्य एकद्रव्याश्रयत्वस्य चेव सत्त्वासत्त्वयोरेकाश्रयत्वस्याविरुद्धत्वात् । न च स्वस्वभावादिना सत्त्वमेव परस्वभावादिनाऽसत्त्वं स्यान्न ततो भिन्नमिति वाच्यम्, तस्यैकस्वभावात्वेऽवस्तुत्वप्रसङ्गात्, यदि हि घटत्वादिना सत्त्वमेव पटत्वाद्यवच्छिन्नासत्त्वं स्यात् तदा पटत्वादिनापि सन् स्यात् पटत्वाद्यवच्छिनासत्त्वस्य घटत्वावच्छिन्नसत्त्वा-व्यतिरिक्तत्वात्, तथा घटत्वेनाप्यसन् स्यात् पटत्वाद्यवच्छिन्नासत्त्वाभिन्नत्वाद्धटत्वा-वच्छिन्नसत्त्वस्य, तथा च तदितररूपापत्त्यादिनाऽपदार्थत्वप्रसङ्गो दुर्वार एव स्यात् । ननु निरुपाख्यं किञ्चित् पररूपाद्यसत्त्वं नास्त्येव १. न चैकस्मिन्नपि द्रव्ये प्रत्यक्षविषयता भिन्नकाले भिन्नकाले च शाब्दीविषयेति यकालभेदान्न तयोविरोध इति वाच्यमेककालावच्छेदेन चित्रज्ञाने नीलतदितरविषयत्वयोविरोधेनाभानापत्तेः, न च तत्र तथाप्रतीतिरेवाविरोधसाधिका तयोरिति वाच्यं प्रकृतेऽपि तुल्यत्वात् । किञ्च भावाभावयोर्विरोधस्यापि तत्तत्प्रतियोगिघटितत्वेन विशेष एव विश्रान्ततया जात्यन्तरभूते वस्तुनि तदेकदेशसत्त्वासत्त्वयोरविरोधकल्पन एव लाघवमिति ॥ २. निरुपाख्यं-निःस्वभावम् पररूपाद्यसत्त्वं-पररूपाद्यवच्छिनः सत्त्वाभाव: बौद्धमतेनायं पूर्वपक्षः । विशिष्टमेकस्वभावं-स्वेतरसकलव्यावत्तिरूपं सदेकस्वभावम॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy