SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ द्वितीय भाग / सूत्र - २४-२५, षष्ठ किरणे २८९ હવે સત્ત્વને ગૌણ કરીને અસત્ત્વની પ્રધાનતાનું પ્રતિપાદક બીજા વાક્યના અર્થનું વિવેચન કરે છે. નિષેધવિષયક બોધ (૨) ભાવાર્થ – “ઘટઃસ્યાદ્ નાસ્તિ એવ' આવું બીજું વાક્ય અન્ય ધર્મના અપ્રતિષેધપૂર્વક નિષેધવિષયવાળા બોધનું જનક છે. અહીં પણ તાદેશ ઘટ, પ્રતિયોગિઅસમાનાધિકરણ, ઘટત્વસમાનાધિકરણ જે અત્યંત અભાવ (ઉદાસીન અભાવ), તેના અપ્રતિયોગિ પરદ્રવ્ય આદિથી અવચ્છિન્ન નાસ્તિવાળો છે, આવો जोधं छे." - વિવેચન – ‘અન્ય ધર્મના અપ્રતિષેધપૂર્વક' ઇત્યાદિ કથનથી એ ફલિત થાય છે કે-ખરેખર, બીજા ધર્મના પ્રતિષેધમાં દુર્નયપણું થઈ જાય ! તથાચ બીજા ધર્મનો પ્રતિષેધ નહિ કરવાથી, યાત્પદના મહિમાથી અનંતધર્મવિષયવાળો ગ્રહણ કરેલ ધર્મનો પ્રતિપાદક જે વિશિષ્ટ બોધ છે, તેનું જનક આ વાક્ય છે. પૂર્વની માફક અહીં શાબ્દબોધ જાણવો. तृतीयवाक्यार्थमाह -- स्यादस्ति नास्ति च घट इति तृतीयं वाक्यं तादृशे घटे क्रमार्पितस्वपररूपाद्यवच्छिन्नास्तित्वनास्तित्वावच्छिन्नत्वं बोधयति, तथा च तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ता भावाप्रतियोगिक्रमार्पितस्वपररूपाद्यवच्छिन्नास्तित्वनास्तित्वोभयधर्मवानिति बोधः ॥ २५ ॥ स्यादस्तीति । मलयगिरिपादाभ्युपगमापेक्षयात्र शाब्दबोध उक्तो व्याख्यातप्रायश्च । प्रथमद्वितीयचतुर्थवाक्यानामेव सकलादेशत्वं निरवयवद्रव्यविषयत्वाच्छेषाणान्तु सावयवद्रव्यविषयत्वार्द्विकलादेशरूपत्वं देशभेदं विनैकत्र क्रमेणापि सदसत्त्वविवक्षायास्सम्प्रदाय १. तत्र देशो नाम सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवः । विकलादेश इत्यादेश वस्तुनो वैकल्यञ्च स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्तं गुणादिरूपं स्वरूपेणोपरञ्जकमपेक्ष्य परिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्वव्यवस्थायां समुदायात्मकमात्मरूपमभ्युपगम्याभिधानम् । अनेकधर्मस्वभावमेकं हि वस्तु, दृष्टचाभिन्नस्याप्यात्मनो भिन्नो गुणो भेदकः, यथा परुद्भवान् पटुरासीत् ऐषमस्तु पटुतरोऽन्य एवाभिसंवृत्त इति, अत्र हि पटुत्वातिशयस्सामान्यपाटवाद्गुणादन्यः, स च वस्तुनो भेदं कल्पयति, प्रयोजनार्थिना तथाऽऽश्रितत्वात्, तस्मात्ते गुणास्तस्यारम्भकत्वाद् भागा वस्त्वंशमनुभवन्ति, अनेकानेकस्वरूपत्वादात्मादिवस्तुनः, पुरुषस्येव पाण्यादयः, ते च क्रमेण वृत्ताः ! क्रमयौगपद्याभ्याञ्च तत्र तृतीयेऽस्मिन् भङ्गे क्रमेण वृत्ताः, द्रव्यार्थसामान्येन तद्विशेषेण वा पर्यायसामान्येन तद्विशेषेण वा वस्तूच्यते यथा आत्मा चैतन्यसामान्येनास्ति चैतन्यविशेषविवक्षायां वा एकोपयोगत्वादस्ति, पर्यायसामान्यात् अचैतन्येन नास्ति घटोपयोगकाले वा पटोपयोगेन नास्ति, चैतन्येन तद्विशेषेण वर्त्तमान एव तदभावेन तद्विशेषाभावेन वा न वर्त्तत इत्युभयाधीन आत्मेति तृतीयवाक्यतात्पर्यम् । एवञ्च सङ्ग्रहव्यवहाराभिप्रायात् त्रयस्सकलादेशाः चत्वारस्तु ऋजुसूत्रशब्दसमभिरूढैवंभूतनयाभिप्रायादिति तत्त्वार्थभाष्यटीकाकाराः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy