________________
२६८
तत्त्वन्यायविभाकरे
છે. આ સૂચન માટે ષષ્ઠી વિભક્તિ અંતરૂપે ઉપન્યાસ કરેલ છે. પ્રથમ-દ્વિતીય-તૃતીય-ચતુર્થ ભેદોનો વિલક્ષણ ધર્મ, પંચમ-ઇ-સપ્તમ ભેદોનું કથિત ધર્મનું યોજનાત્મકપણું છે, માટે તેઓનું પૃથપણું અહીં દર્શાવ્યું નથી. પ્રથમ-દ્વિતીય ભેદોનું પૃથકપણું સુસ્પષ્ટ જ છે, માટે તે પણ કહ્યું નથી
तदेवं सामान्यतस्सप्तभङ्गीस्वरूपं प्रदर्श्य विशेषबुबोधयिषया तां विभजते -
इयं सप्तभङ्गी सकलादेशविकलादेशाभ्यां द्विधा । तत्रैकधर्मविषयकबोधजनकं सद्योगपद्येनाभेदवृत्त्याऽभेदोपचारेण वा तत्तद्धर्माभिन्नानेकयावद्धर्मात्मकपदार्थबोधजनकवाक्यं सकलादेशः ॥ १६ ॥
इयमिति, प्रोक्तस्वरूपेत्यर्थः । एकैको भङ्गः सकलादेशस्वभावो विकलादेशस्वभावश्चेत्यर्थः, एतत्तत्वमग्रे वक्ष्यते, सकलादेशं लक्षयति तत्रेति, एकधर्मविषयकबोधजनकत्वे सति तत्तद्धर्माभिन्नानेकयावद्धर्मात्मकपदार्थबोधजनकत्वस्य प्रत्येकं प्रमाणनयसप्तभङ्गीवाक्येषु सत्त्वेन न नयवाक्येष्वतिव्याप्तिः, स्यात्पदं हि प्रकृतेतरयावद्धर्मात्मकत्वं द्योतयति गुणभावेन, तथा च सर्वमेव वाक्यं गुणभावेन प्रकृतेतरयावद्धर्मात्मकपदार्थबोधजनकं, प्रधानतया चोपस्थितधर्मबोधजनकञ्चेति । अतो यौगपद्येनाभेदवृत्त्याऽभेदोपचारेण वेत्युक्तम्, एवञ्च प्रमाणवाक्यानां सर्वैः पदैर्मिलित्वा प्राधान्येनानन्तधर्मात्मकवस्तुबोधन एव तात्पर्यम्, स्यादस्त्येव घट इति वाक्यात् स्वेतरसकलधर्मात्मकत्वसम्बन्धेनास्तित्ववानेव घट इति प्राथमिक बोधानन्तरं तस्मादनन्तधर्मात्मकमेव सर्वमित्यौपादानिकबोधस्सकलादेशजन्यः स्वीक्रियते, स च द्रव्यार्थिकार्पणयाऽनुपचरितैकविशेष्यताकः, पर्यायार्थिकार्पणया चोपचरितैकविशेष्यताक इति तात्पर्यार्थमादाय न प्रधानैकार्थत्वव्याघातः, सकलादेशान्यार्थ एव गुणप्रधानभावेन बोधकत्वनियमस्य चरितार्थत्वात् । अत एव सकलादेशेऽनन्तत्वान्यधर्मानवच्छिन्नानन्तधर्मप्रकारतानिरूपितसकलवस्तुविषयताशालिज्ञानत्वेन केवलज्ञानतुल्यत्वोक्तिः सङ्गच्छत इति भावः । तथा चैकधर्मात्मकवस्तुविषयबोधस्याभेदवृत्तेरभेदोपचारस्य वाऽनाश्रयणे विकलादेशत्वापत्त्या कालादिभिरष्टाभिर्धर्मधर्मिणोस्तद्भिन्नधर्माणाञ्चाभेदस्य प्राधान्यतः कालादिभिर्भिन्नानां वा घर्माणामभेदस्यारोपात्समकालं तादृशाशेषधर्मात्मकर्मिबोधकं वाक्यं सकलादेश इति तात्पर्यार्थः । अस्तित्वनास्तित्वादिधर्माणां कालादिभिरभेदेन वृत्तमात्मरूपं यदोच्यते तदैकेना
१. ननु स्याच्छब्दस्य द्योतकत्वं तदा युज्यते यदाऽनेकान्तः केनापि शब्देन वाच्यस्स्यात्तदेवेह नास्तीतिकथं द्योतकत्वमिति चेन्न, अस्त्येव घट इत्यादिवाक्येन तत्प्रतिपादनात् सकलादेशस्वरूपं हीदं वाक्यं कालादिभिरभेदवृत्त्याऽभेदोपचारेण वा तद्बोधनसमर्थमिति ।