SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ द्वितीय भाग / सूत्र - १२ - १३, षष्ठ किरणे સપ્તવિધપણું ભાવાર્થ – “પ્રશ્નકારના સાત પ્રકારના પ્રશ્નોના વિશે સાત વાક્યોની પ્રવૃત્તિ છે. પ્રશ્નોનું સપ્તવિધપણું છે, કેમ કે-તેની જિજ્ઞાસા સાત પ્રકારની છે. જિજ્ઞાસાનું સપ્તવિધપણું છે, કેમ કે-સાત પ્રકારના સંશયોનો ઉદય છે. સંશયોનું સપ્તવિધપણું છે, કેમ કે-તે સંશયોના વિષયભૂત ધર્મોનું સપ્તવિધપણું છે, એમ જાણવું.” વિવેચન – જેટલા પ્રશ્નો છે, તેટલા જ ઉત્તરવાક્યોની પ્રવૃત્તિ છે. જિજ્ઞાસાના અનુસારે પ્રશ્નની પ્રવૃત્તિ छे. भेटला संशयो छे, तेटली विज्ञासा छे. भेटला संशयविषयभूत धर्मों छे, तेटला संशयो छे. २६१ તથાચ સાત પ્રકારે વિષયો પ્રમાણસિદ્ધ હોવાથી સંશયો તેટલા જ છે. સાત સંશયના વિષયભૂત ધર્મો छे, भाटे सात संशयो छे. सात संशयो छे, भाटे सात भिज्ञासा छे. सात भिज्ञासा छे, भाटे सात प्रश्री छे. સાત પ્રશ્નો છે, માટે સાત ઉત્તરવાક્યો છે. धर्माः क इत्यत्राह - ते च धर्माः कथञ्चित्सत्त्वं, कथञ्चिदसत्त्वं क्रमार्पितोभयम्, कथञ्चिदवक्तव्यत्वं, कथञ्चित्सत्त्वविशिष्टावक्तव्यत्वं कथञ्चिदसत्त्वविशिष्टावक्तव्यत्वं, क्रमार्पितोभय " विशिष्टावक्तव्यत्वञ्च ॥ १३ ॥ ते चेति । संशयविषयीभूताश्चेत्यर्थः । कथञ्चित् सत्त्वमिति, वस्तुधर्मोऽयं, तदनभ्युपगमे वस्तुनो वस्तुत्वमेव न स्यात् खरविषाणादिवत्, स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वं वस्तु सदेव, परद्रव्यादेरिव स्वद्रव्यादेरपि वस्तुनोऽसत्त्वे शून्यताप्रसङ्गः स्यात् सर्वं सदेवेत्यपि न, सर्वपदार्थानां परस्परमसांकर्यप्रतिपत्तेरसत्त्वस्यापि सिद्धेः, अत एव कथञ्चिदसत्त्वमपि वस्तुधर्म इत्याह कथञ्चिदसत्त्वमिति, स्वरूपादिव पररूपादपि वस्तुनस्सत्त्वे प्रतिनियतस्वरूपाभावाद् वस्तुप्रतिनियमविरोधो दुर्वार इति भावः । क्रमार्पितोभयमिति, क्रमार्पितसदसदुभयत्वमित्यर्थः, तदभावे हि क्रमेण सदसत्त्वविकल्पशब्दव्यवहारस्य विरोधः स्यादिति भाव: । न चायं व्यवहारो निर्विषयः क्रमार्पितोभयज्ञानतद्व्यवहारतत्प्राप्तीनामविसंवादात् तथाविधरूपादिव्यवहारवत्, तस्यापि निर्विषयत्वे सकलप्रत्यक्षादिव्यवहारोच्छेदान्न कस्यचिदिष्टतत्त्वव्यवस्था स्यात्, एवमग्रेऽपि भाव्यम् । ननु स्यादस्ति नास्ति च घट इति वाक्यादस्तिनास्ति पदाभ्यां सदसत्त्वयोश्चकारेणोभयस्य चोपस्थित्या सदसदुभयत्वं तादृशव्यवहारस्य विषय:, तच्च केवलसत्त्वासत्त्वाभ्यां भिन्नं भवतु उभयत्वस्यैकविशिष्टापरत्व १. सदसदुभयत्वं न सत्त्वविशिष्टासत्त्वत्वरूपं, अत्र हि वैशिष्टयं सामानाधिकरण्येन वाच्यं तथा च गोत्वाश्वत्वयोः परस्परं सामानाधिकरण्याभावेन वैशिष्टयविरहेऽपि गोत्वाश्वतोभयमित्युभयत्वावगाहिप्रतीत्युत्पत्तेस्तथा चोभयत्वं वैशिष्टयाद्भिन्नमिति स्वीकार्यं, तस्य भेदादेव च सत्त्वासत्त्वाभ्यां सत्त्वासत्त्वोभयमपि कथञ्चिद्भिन्नमिति भावः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy