SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४२ तत्त्वन्यायविभाकरे (१) मा यथार्थ 4-दौ3 भेटले. सामान्यन३५ सोम. २४ना. ४५ 3-पिता-माता ३. (૨) લોકોત્તર યથાર્થ વક્તા-લોક કરતાં પ્રધાન કેમ કે-મોક્ષમાર્ગના ઉપદેશક છે, માટે તીર્થંકર-ગણધર આદિ લોકોત્તર આપ્ત કહેવાય છે. અહીં તીર્થંકર-તીર્થ એટલે પ્રવચન, તે કરવાના સ્વભાવવાળા છે, કેમ કે-અચિંત્ય માહાસ્યવંત મહાપુણ્ય જેનું બીજું નામ છે, એવા તીર્થંકરનામકર્મનો વિપાક છે. તે તીર્થંકર શ્રી વર્ધમાનજિન વગેરે પુરુષવિશેષ હોય છે. ननु . यथार्थवक्तृवचनरूप आप्तशब्द उपचरितागमतया प्रोक्तः तत्र कोऽसौ वचनात्मकश्शब्द इत्यत आह - शब्दश्च सङ्केतसापेक्षः स्वाभाविकार्थबोधजनकशक्तिमांश्च ॥ ४ ॥ शब्दश्चेति । सङ्केत इदं पदमस्य वाचकमिदञ्चास्य पदस्य वाच्यमित्येवंरूपो वाच्यवाचकयोर्विनियोगः, तत्सापेक्ष इत्यर्थः, सङ्केतस्स्वार्थावबोधे शब्दस्यापेक्षाकारणं बोध्यम् । सङ्केतमात्रेण शब्दोऽर्थं प्रतिपादयतीति मतव्युदासायाह स्वाभाविकेति, स्वाभाविकी सहजाऽर्थप्रतिपादनशक्तिर्योग्यताभिधान तद्वानित्यर्थः । सङ्केतमात्रस्य पुरुषाधीनतया न तदिच्छया वस्तुनियमो युक्तः, तदिच्छाया अव्याहतचारित्वेन कदाचिदर्थोऽपि वाचकश्शब्दोऽपि वाच्यः स्यात्, न च शब्दधर्मा ये गत्वौत्वादयस्तद्वानेव वाचको भवति परस्तु वाच्यो यथा द्रव्यत्वाविशेषेऽप्यग्नित्वादिविशिष्ट एव दाहादिजनको नान्य इति किं स्वाभाविकयोग्यतयेति वाच्यम्, अतीन्द्रियशक्तिमन्तरेणाग्नित्वादीनामपि कार्यकारणभावानि यामकत्वात् । न च तत एव शब्दादर्थप्रतीतौ कि सङ्केतेनेति वाच्यम्, अङ्करोत्पत्तौ शक्तिमतोऽपि बीजस्य क्षितिजलादीनामिव तस्य सहकारिकारणत्वात् । न चैवं देशभेदेन शब्दानामर्थभेदो न स्यादेकत्रैव शब्दानां स्वाभाविकशक्तियुक्तत्वादिति वाच्यम्, अत एव सर्वशब्दानां सर्वार्थप्रत्यायनशक्तित्वाङ्गीकारेणादोषात् । न च घटशब्दश्रवणानिखिलार्थबोधः स्यादिति वाच्यम्, क्षयोपशमसापेक्षत्वाब्दोधस्य, स च संकेताद्यपेक्ष इत्यदोषात्, एतेन शब्दार्थयोस्सम्बन्धो न सम्भवति, स हि तादात्म्यो वा स्यात्तदुत्पत्तिरूपो वा स्यात् तत्र नाद्यस्सम्भवति शब्दार्थयोभिन्नदेशत्वात् । अग्निगुडादिशब्दोच्चारणे वदने दाहमधुराद्युपलब्धिप्रसङ्गाच्च । नापरोऽपि अङ्गल्यग्रे करियूथशतमित्यादिशब्दानामर्थाभावेऽपि स्थानकरणप्रयत्नानन्तरमुत्पत्तिदर्शनात् । तथा च शब्दाः कथं बाह्यार्थे प्रतीति जनयितुं समर्था अर्थसंस्पर्शित्वाभावात् । किन्तु विकल्पमात्रप्रभवाः तिरस्कृतबाह्यार्थाः स्वमहिम्ना प्रत्ययान् जनयन्ति यथा करशाखादिवाक्यानि । किञ्च शब्दो न सामान्यवाचकः तस्यार्थक्रियाकारित्वाभावेन गगनकुसुमाय
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy