SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे અનન્વય દેષ્ટાન્તનું કથન भावार्थ – “आ चैत्र रागी छे, म उ-वडता छे. प्रेम -मैत्र. खा प्रमाणेना दृष्टान्तमां साध्य अने હેતુની સત્તામાં પણ જે જે વક્તા છે, તે તે રાગ આદિવાળા છે. આવી વ્યાપ્તિની અસિદ્ધિથી અનન્વય છે.” २२६ વિવેચન – જો કે અભિમત ચૈત્ર આદિમાં વક્તૃત્વ અને રાગિત્વ છે, પરંતુ પાષાણ આદિમાં વક્તૃત્વ અને રાગિત્વ નથી. તો પણ જે જે વક્તા છે, તે તે રાગ આદિમાનૢ છે. આવી વ્યાપ્તિ તે બંનેમાં સિદ્ધ થતી નથી. એથી અભિમત ચૈત્ર આદિરૂપ અનન્વય દૃષ્ટાન્ત છે, આવો ભાવ છે. આ દૃષ્ટાન્નાભાસ આઠ દૃષ્ટાન્નાભાસોથી જુદો નથી, કેમ કે-વ્યાપ્તિની અસિદ્ધિ સઘળે ઠેકાણે છે. આ પ્રમાણે આઠ જ સાધર્મ્યુદષ્ટાન્નાભાસરૂપ છે. આમ શ્રી હેમચંદ્ર આચાર્યવર્યની માન્યતા છે. अप्रदर्शितान्वयं दृष्टान्तं विपरीतान्वयदृष्टान्तञ्चाह - अनित्यश्शब्दः कार्यत्वाद्धटवदित्यत्रान्वयसहचारसत्त्वेऽप्यप्रदर्शनादप्रदर्शितान्वयः । तत्रैव यदनित्यं तत्कृतकं यथा घट इत्युक्तौ विपरीतान्वयः ॥ २४ ॥ अनित्य इति । अप्रदर्शनादिति, वचनेनाप्रकाशितत्वादित्यर्थः, अत्रेदम्बोध्यमप्रदर्शितान्वयस्थले वस्तुनिष्ठो न कश्चिद्दोषः, परार्थानुमाने च वचनगुणदोषानुसारेण वक्तुर्गुणदोषौ परीक्षणीयाविति भवति वाचनिकमस्य दोषत्वं, एवं अप्रदर्शितव्यतिरेकेऽपि बोध्यम् । अथ विपरीतान्वयं नवमं दर्शयति - तत्रैवेति, पूर्वोपदर्शितेऽनित्यः शब्दः कार्यत्वाद्घटवदित्यत्रैवेत्यर्थः, यदनित्यमिति, यत्कृतकं तदानित्यमित्यनुक्त्वेत्याविः । अन्वये हि प्रथमं हेतुं प्रद साध्यं प्रदर्शनीयमत्र तु विपर्यासेन प्रदर्शनाद्विपरीतान्वय इति भावः । न च यदनित्यं तत्कृतकमिति अत्रैवं प्रदर्शितेऽपि व्यभिचाराभावेन न काप्यनुपपत्तिरितिवाच्यम्, समव्याप्तिकस्थले तथात्वेऽपिशब्दोऽनित्यः प्रयत्नानन्तरीयकत्वादित्यादिविषमव्याप्तहेतुस्थले यदनित्यं तत्प्रयत्नानन्तरीयकमित्युक्तौ विद्यादादौ व्यभिचारेणानुपपत्तिसत्त्वात्, साधर्म्यप्रयोगे साधनस्यैव पूर्वप्रदर्शनीयत्वादिति ॥ अत्र केचित् अनन्वयाप्रदर्शितान्वयविपरीतान्वयरूपदृष्टान्तत्रयाभिधानं न सुपर्यालोचितं, तथाहि न तावदनन्वयो दृष्टान्ताभासो भवितुमर्हति यदिहि दृष्टान्तबलेन व्याप्तिस्साध्यसाधनयोः प्रतिपाद्येत ततस्स्यादनन्वयो दृष्टान्ताभासः स्वकार्याकरणात्, यदा तु पूर्वप्रवृत्तसम्बन्धग्राहिप्रमाणगोचरस्मरणसम्पादनार्थं दृष्टान्तोदाहृतिरिति स्थितं १. एवं ह्यभिधानेऽनित्यत्वं व्याप्यं कार्यत्वं व्यापकमिति विपरीता व्याप्यव्यापकभावप्रतिपत्तिः स्यात्, तया च समव्याप्तिके साधनस्य व्यापकत्वाभिधाने साध्यस्य प्रतिपत्तिर्न स्यादिति दूषणम्, विषमव्याप्तिके तु तया व्याप्त्यग्रहश्च व्यभिचारज्ञानात् । विषमव्याप्तिक एव विपरीतान्वयो दोष इति केचित् ॥ २. यद्यत् कार्यं तत्तदनित्यं यथा घटादिरिति वचनं विनाऽन्वयस्याप्रतीतेरिति भावः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy