SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६० तत्त्वन्यायविभाकरे सद्भावान्नाभावस्य निःस्वभावत्वमिति वाच्यम्, तथा सति तस्य भावस्वभावत्वसिद्धेः, प्रत्ययाभिधानविषयस्यार्थक्रियाकारिणः पदार्थस्य भावस्वभावत्वात्, नास्तित्वस्य च वस्तुधर्मत्वाद्धर्मस्य कथञ्चिद्धर्मिभिन्नत्वेन कथञ्चिद्भेदोऽपि, तत्राभेदाश्रयणे भावत्वेन भेदाश्रयणे च तद्वृत्तित्वेनाभावस्य प्रतीतिः, एतेन भूतलस्य घटाभावत्वे भूतले घटाभाव इति प्रतीतिर्न स्यात् स्याच्च भूतले भूतलमिति धीरित्यपास्तम् । अभेदेऽपि घटाभावत्वेनाधेयताया भूतलत्वेन चाधारताया यथाप्रतीति स्वीकारादिति भावः । अथ प्रागभावं लक्षयति यन्निवृत्तावेवेति, विलक्षणपरिणामविशिष्टस्य मृत्पिण्डस्य तेन रूपेण विनाशे हि घटरूपतया मृत्पिण्डः परिणमत इति घटरूपतयोत्पत्तेः प्रागव्यवहितपरिणामविशिष्टं मृद्रव्यमेव तत्प्रागभाव उच्यते न तु मृत्पिण्डात्सर्वथाऽर्थान्तरमिति भावः, इदमेव दृष्टान्तद्वारा प्रदर्शयति यथेति, घटस्य प्रागभावश्च तदव्यवहितपूर्वक्षणपरिणाम इत्येके, तेषां तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः, कार्यध्वंसतत्प्रागभावानाधारकालस्य कार्यवत्त्वव्याप्यत्वात् । तत्पूर्वानादिपरिणामसन्ततौ कार्यभेदसत्त्वान्न दोष इति चेन्नाव्यवहितकार्यपूर्वपरिणामेऽपि कार्यभेदसत्त्वेन तेनैव तदानीं कार्याभावसिद्धेः प्रागभावस्वीकारनिरर्थकतापत्तेः, न च कार्यस्य प्रागभावाभावस्वभावत्वसिद्ध्यर्थं तदभ्युपगम इतिवाच्यम्, कार्यपूर्वोत्तरनिखिलपरिणामेषु कार्यानन्तरपूर्वपर्यायभिन्नेषु कार्यस्वभावताप्रसङ्गात् । न च न कार्यप्रागभावाभावत्वं कार्यस्वभावत्वव्याप्यं किन्तु कार्यप्रागभावध्वंसत्वमेव, सोऽपि ध्वंसोऽव्यवहितोत्तरक्षण एव वर्त्तते, तदुत्तरक्षणेषु घटादिव्यवहारश्च सदृशकार्योत्पत्तिदोषादिति वाच्यम् । एतस्य सौगतानामेव शोभनत्वादस्माभिः प्रागभावस्यानादित्वोपगमात् । प्रागभावध्वंसस्य द्वितीयादिक्षणेष्वसत्त्वे प्रागभावोन्मज्जनप्रसङ्गेन प्रागभावक्षण इव तत्रापि कार्यस्यासद्भावप्रसङ्गात्तत्र दोषाभ्युपगमस्य चाप्रामाणिकत्वात् । तस्माद् द्रव्यपर्यायात्मा प्रागभावः स च स्यात्सादिस्स्यादनादिरिति सिद्धान्तात् । न चे द्रव्यरूपतयाऽनादित्वेऽनन्तत्वप्रसक्तेस्सर्वदा कार्यानुत्पत्तिः स्यात् पर्यायरूपतया च सादित्वे प्रागभावात्पूर्वमपि पश्चादिव कार्योत्पत्तिः स्यादित्युभयत्र दोषात् भावस्वभावो न प्रागभावस्तस्य भावविलक्षणत्वेन सर्वदा भावविशेषणत्वादिति वाच्यम्, १. इदानीं घट इत्यादिप्रतीत्या तत्तत्क्षण एव तदभिन्नकार्याणां बौद्धमते तादात्म्येन कालवृत्तित्वोपगमात् कार्यभिन्नक्षणे कार्यत्वस्यापादयितुमशक्यत्वादिति भावः ॥२. ते हि पर्यायार्थमात्रादेशं स्वीकुर्वन्तीति तेषामेवेदं शोभनं उभयनयवादिनामस्माकन्तु तत्सिद्धान्तविरुद्धमिति भावः ॥३. ननु भवदुक्तेनैवं फलति पूर्वपर्यायेषु मृद्रव्ये च प्रागभावत्वं व्यासज्यवृत्तीति तन्न सम्यक् प्रत्येकावृत्तेस्समुदायावृत्तित्वात्, प्रत्येकवृत्तित्वे च दोषादित्याशयेनाशंकते न चेति ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy