SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १५० तत्त्वन्यायविभाकरे ક્રમભાવ નિયમ કોને કોને થાય છે, તે કહે છે. ભાવાર્થ – “ક્રમભાવ નિયમ તો, પૂર્વ-ઉત્તરભાવિ કૃતિકાના ઉદય અને રોહિણીના ઉદયમાં છે અને કાર્ય-કારણભૂત ધૂમ અને વતિમાં હોય છે.” વિવેચન – ક્રમ એટલે પૂર્વ અને અપરભાવ. તે ક્રમ અકાર્ય-કારણનો અને કાર્ય-કારણનો થાય છે. भाटे पडेलानो तो मापेछ - 'कृत्तिकेति ।' महा शटन ध्यभा मृत्तिना ध्य- १२९५ नथी परंतु पूर्व-म५२त्मा१३५ म मात्र छ, मेवो भाव छ. अर्थ मने ॥२९॥ना दृष्टान्तनेछ 'कार्येति ।' 'भवतीति ।' मा 'नियम' मा प्रभारी मध्याहार्य छे. ननु हेतुज्ञानसहकृतेन व्याप्तिस्मरणेन साध्यविज्ञानमनुमानमिति प्राग्वर्णितं, तत्र किन्तावत्साध्यमित्यत्राह प्रमाणाबाधितमनिर्णीतं सिषाधयिषितं साध्यम् । यथा वह्निमत्वपर्वतः । अस्यैव च पक्ष इति नामान्तरम् । साध्यविशिष्टत्वेन धर्मिण एव सिषाधयिषितत्वात्, इदञ्चानुमानजन्यप्रतिपत्तिकालापेक्षया ॥७॥ ___ प्रमाणेति । प्रमाणपदेनात्र प्रमाणत्वावच्छिन्नं ग्राह्यं तथा च प्रमाणत्वावच्छिन्नेन येन केनचिदप्यबाधितमित्यर्थः, एतेन बाधितस्य साध्यत्वव्यावृत्तिः कृता भवति, यथा शब्दोऽश्रावण इति प्रत्यक्षबाधितं साध्यम्, नित्यश्शब्द इति शब्दस्यानित्यत्वसाधकेनानुमानेन बाधितम्, धर्मः प्रेत्यासुखप्रद इति धर्मः प्रेत्यसुखप्रद इत्यागमेन बाधितम्, माता मे वन्ध्येति स्ववचनबाधितं, नरशिरःकपालं शुचीति लोकबाधितम्, एवंरूपाणां व्यावर्त्तनाय प्रमाणाबाधितमिति पदम् । स्थाणुर्वा पुरुषो वेति संशयविषयस्य, शुक्तिकाशकलं रजतमिति विपर्यासविषयस्य, यथावदनिश्चितस्वरूपस्य गृहीतस्यागृहीतस्य वार्थस्य सायंताप्रतिपत्त्यर्थमनिर्णीतपदम्, एतद्वैपरीत्ये हि साधनं विफलमेव भवेदिति । अनिष्टस्य सर्वथाऽनित्यत्वादेरसाध्यत्वप्रतिपत्तये सिषाधयिषितमित्युक्तम् । साधनेच्छाविषयीभूतमित्यर्थः, साधनं स्वाभिप्रेतार्थस्य, इच्छा वक्तुस्तथा च स्वामिप्रेतार्थसाधनविषयकवक्विच्छाविषयीभूतमिति भावः, वाद्यपेक्षया साधनेच्छा भवति, संहतपरार्थत्वं चक्षुरादीनां स्वीकर्तारं बौद्धं प्रति सांख्येन परार्थश्चक्षुरादय इत्येवं पारार्थ्यमात्रस्याभिधानेऽपि सांख्येच्छाविषयीभूतमात्मार्थत्वमेव साध्यं भवति, अन्यथा साधनं निरर्थकमेव स्यात् । प्रमाणाबाधितमिति पदं वादिप्रतिवाद्युभयापे १. संशयितस्य पुरुषस्य संशयोपनोदनार्थमिव विपर्यस्ताव्युत्पन्नयोरपि विपर्ययानध्यवसायापनयनायानुमानप्रवृत्तिर्भवत्येव, परपक्षदिदृक्षादिना विपर्यस्तस्याव्युत्पन्नस्य स्वयं तत्त्वबुभुत्सया च परं प्रत्युपसर्पणसम्भवादिति भावः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy