________________
१३३
द्वितीयो भाग / सूत्र - ६-७, तृतीयः किरणे शब्दवाच्य ईदृशशब्दश्चेदृशार्थस्य वाचक इति वाक्येन वाच्यवाचकभावप्रतिपत्तिः । तर्के चानुभवस्स्मृतिः प्रत्यभिज्ञानञ्च कारणम् । इति तर्कनिरूपणम् ॥७॥
वाच्यवाचकेति । आवापोद्वापाभ्यामिति, आवापोऽनुवृत्तिरुद्वापो व्यावृत्तिः । तत्प्रकारं विशदयति यथेति, अयमभिप्रायः, एकः प्रयोजकवृद्धो य आज्ञापयति कमपि, द्वितीयः प्रयोज्यवृद्धो य आज्ञप्तो भवति, तृतीयो बालो यः प्रयोज्यवृद्धप्रवृत्तितः प्रयोजकवृद्धोदितस्य वाक्यस्यार्थं परिच्छिनत्ति । तत्र प्रयोजकवृद्धेन प्रयोज्यवृद्धं प्रति गामानयेति वाक्ये प्रयुक्ते गृहीततत्सङ्केतस्य प्रयोज्यवृद्धस्य तच्छ्रोतुरगृहीततत्सङ्केतस्य च बालस्य वर्णविषयकं पदविषयकं वाक्यविषयकञ्च सङ्कलनात्मकं प्रत्यभिज्ञानं समुदेति । यथा पूर्वपूर्ववर्णावयवश्रवणेन संजात संस्कारस्यान्त्यावयवश्रवणानन्तरं पूर्वतदवयवस्मरणे ह्रस्वादिविषयकसङ्केतस्मरणे च सत्ययं वर्णो हुस्वो दीर्घः प्लुतो वेति प्रत्यभिज्ञानमुभयोर्जायते तथा पूर्वपूर्ववर्णश्रवणजन्यसंस्कारस्यान्त्यवर्णश्रवणानन्तरं तत्तत्पूर्ववर्णानामनुक्रमविशिष्टानां स्मरणे पदविषयकसङ्केतस्मरणे च सतीदं सुबन्तं तिङन्त वा पदमिति प्रत्यभिज्ञानं जायते । एवं पूर्वपूर्वपदश्रवणसमुदितसंस्कारस्यान्त्यपदश्रवणानन्तरमनुक्रमविशिष्टानां पूर्वपदानां वाक्यविषयकसंकेतस्य च स्मरणे सति वाक्यमिदमिति प्रत्यभिज्ञानं जायते । इत्थं प्रत्यभिज्ञानाद्वर्णपदवाक्यग्रहणे जाते प्रयोज्यवृद्धस्य गोकर्मकानयनानुकूलां गमनात्मिकां चेष्टामाकलय्य बालः कारणान्तरासन्निधौ प्रयोजकवृद्धप्रयुक्तशब्दश्रवणसमनन्तरं प्रवृत्तस्य प्रयोज्यवृद्धस्येयं चेष्टा प्रयोजकवृद्धशब्दजन्ययत्किञ्चित्प्रतिपत्तिप्रयोज्येति मन्यते । ततस्तेनानीयमानां गां निभाल्य गवानयनरूपोऽर्थोऽनेन प्रयोज्यवृद्धेन तस्माद्वाक्यादवगत इति प्रत्येति, परन्तु न पारयति तदानीं कस्य पदस्य कोऽर्थ इति विविच्य निश्चेतुं । पुनश्च कालान्तरे प्रयोजकवृद्धेन प्रयुक्तं गां नयेत्यादिवाक्यं गोशब्देनानुवृत्तमानयशब्देन च व्यावृत्तं श्रुत्वा दृष्ट्वा च प्रयोज्यवृद्धस्य विशिष्टां प्रवृत्ति विजानाति तदाऽर्थस्य गोरनुवृत्तिं व्यावृत्तिश्चानयनस्य, तथैव प्रयोजकवृद्धेनोदितमश्वमानयेति वाक्यं गोशब्देन व्यावृत्तमानयशब्देन चानुवृत्तं निशम्य विलोक्य च प्रयोज्यवृद्धस्य तादृशीं चेष्टां समाकलयति गवादेरर्थस्य व्यावृत्तिमानयनस्यानुवृत्तिञ्च । ततश्चेदृशावापोद्वापाभ्यां समुल्लसति तस्य तर्कः गोजातीयोऽर्थो गोजातीयशब्दवाच्यो गोजातीयश्च शब्दो गोजातीयस्य वाचक इत्येवंरूपो वाच्यवाचकभावावलम्बन इति । गामानयेतिवाक्येति, गामानयेत्यनुकरणं पदं तब्दोधकञ्चेतिपदं, तस्य च वाक्यपदेन 'सह सुपा' इत्यनेन समासः । एवमग्रेऽपि । तत्र प्रयुक्तपदस्य वाक्यपदेन समनन्तरपदस्य प्रवृत्तिपदेन जन्यपदस्यानुमानज्ञानपदेनान्वयः । प्रेक्षणं