SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६८ तत्त्वन्यायविभाकरे સ્પર્શન ઇન્દ્રિયનું લક્ષણ भावार्थ - "स्पMAus: 5न्द्रिय १५, प्राध्य-515t२९॥ छ, शीत-G!-स्नि२५-३६-भू-ईशગુરૂ અને લઘુરૂપથી આઠ પ્રકારનો સ્પર્શ છે.” - વિવેચન- લક્ષણ અને પદકૃત્ય પૂર્વની જેમ વિચારવું. આ સ્પર્શન ઇન્દ્રિયની નિવૃત્તિ ઈન્દ્રિયમાં બાહ્યઅત્યંતરનો ભેદ નથી. સ્પર્શન ઇન્દ્રિય પણ રસન આદિની માફક તેટલા પ્રમાણથી આવેલ સ્પર્શવિષયને પ્રાપ્ત કરી જ્ઞાન ઉત્પન્ન કરે છે. સ્પર્શનો વિભાગ કરે છે શીત આદિ. अथ श्रोत्रं लक्षयतिशब्दग्राहकमिन्द्रियं श्रोत्रम्, प्राप्यकारि । सचित्ताचित्तमिश्रभेदात्रिविधश्शब्दः ॥१७॥ शब्देति । वाग्योगप्रयत्ननिसृष्टोऽनन्तानन्तप्रादेशिकपुद्गलस्कन्धप्रतिविशिष्टपरिणामः पुद्गलद्रव्यसंघातविशेषजन्मा वा गर्जितादिरशब्दोऽवसेयस्तद्विषयकज्ञानजनकमिन्द्रियं श्रोत्रमित्यर्थः लक्षणं कृत्यं प्राग्वदूह्यम् । शब्दद्रव्याणि घ्राणेन्द्रियादिविषयभूतेभ्यो द्रव्येभ्यस्सूक्ष्माणि, बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च ततस्सूक्ष्मत्वादतिप्रभूतत्वात्तदाऽन्यद्रव्यवासकत्वाञ्च आत्मप्रदेशैस्पृष्टमात्राण्यपि निर्वृत्तीन्द्रियमध्ये प्रविश्य झटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति । श्रोत्रेन्द्रियञ्च घ्राणेन्द्रियाद्यपेक्षया स्वविषयपरिच्छेदे पटुतरं, ततस्स्पृष्टमात्राण्यपि तानि श्रोत्रेन्द्रियमुपलभन्ते नास्पृष्टानि श्रोत्रेन्द्रियस्य प्राप्तविषयपरिच्छेदस्वभावत्वादित्याशयेनाह प्राप्यकारीति, स्पृष्टार्थग्राहीत्यर्थः । जघन्येनाङ्गलासंख्येयभागादागतं प्रकर्षेण द्वादशयोजनादागतं स्पृष्टं शब्दं गृह्णाति, नातः परत आगतं तस्य स्वभावतो मन्दपरिणामत्वात्, श्रोत्रेन्द्रियस्यापि तथाविधमद्भुततरं बलं न विद्यते येन परतोऽप्यागतान् शब्दान् श्रृणुयादिति भावः । नर्नु श्रोत्रस्य प्राप्तार्थग्राहित्वं न युज्यते, स्वदेशाद्भिनदेशस्थस्यापि शब्दस्य ग्रहणानुभवात्, नहि कश्चिच्छब्दः श्रोत्रेन्द्रिये प्रविशन्नुपलभ्यते, नवा श्रोत्रेन्द्रियं शब्ददेशे गच्छत्, समीक्ष्यते, दूरे एष कस्यापि शब्दः श्रूयते इति जनोक्तिरपि श्रूयते इति चेन्मैवम्, श्रोत्रं हि शब्दः प्राप्नोति न तु शब्दं श्रोत्रमबाह्यकरणत्वादात्मनः । ते च शब्दा गत्यादिक्रियावन्तः पुद्गलमयाः, वायुनोह्यमानत्वात्ते क्रियावन्तो धूम इव, विशेषेण द्वारानुविधानात्तोयवत्, पर्वतनितम्बादिषु १. ननु शब्दपरमाणव उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियदेशं प्राप्नुवन्ति प्राप्तांश्च तान् श्रोत्रेन्द्रियं गृह्णाति नाप्राप्तानिति यद्युच्यते तर्हि शब्दे दूरासन्नादिभेदप्रतीतिर्न स्यात् प्राप्तो हि विष्यः परिच्छिद्यमानस्सर्वोऽपि सन्निहित एव, प्रतीयते च दूरे शब्दोऽन्तिके शब्द इति तत्र दूरासन्नादिभेद इत्याशङ्कायामाह श्रोत्रेण सन्निकृष्टस्यापीति ।
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy