SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ६४० तत्त्वन्यायविभाकरे सप्तभागाः, षड्विधबन्धकस्य षड्भागा एकविधबन्धकस्य त्वेको भाग इति मूलप्रकृतिभागविभागा उक्ताः, तत्रोत्तरप्रकृतीनान्तु ज्ञानावरणीयस्य स्थित्यनुसारेण पूर्वोदितरूपेण यो मूलभाग आभजति तस्यानन्ततमो भागः केवलज्ञानावरणाय दीयते, तस्यैव भागस्य सर्वघातिप्रकृतियोग्यत्वात्, शेषस्य भागचतुष्टयं विधाय मतिश्रुतावधिमनःपर्यवज्ञानावरणेभ्य एकैको भागो दीयते । दर्शनावरणस्यापि यो मूलभागः प्राप्तस्तस्यानन्ततमं भागं षोढा विधाय सर्वधातिभ्यां निद्रापञ्चककेवलदर्शनावरणाभ्यां दीयते, शेषस्य भागत्रयं विधाय चक्षुरचक्षुरवधिदर्शनावरणेभ्य एकैको भागो दीयते । अन्तरायस्य प्राप्तं मूलभागं निखिलमपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, सर्वघात्यवान्तरभेदाभावात् । शेषस्य भागचतुष्टयं विधाय मतिश्रुतावधिमनःपर्यवज्ञानावरणेभ्य एकैको भागो दीयते । अन्तरायस्य प्राप्तं मूलभागं निखिलमपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, सर्वघात्यवान्तरभेदाभावात् । मोहनीयस्य लब्धभागेऽनन्ततमं सर्वघातिप्रकृतियोग्यं द्विधा कृत्वा दर्शनमोहनीयचारित्रमोहनीयाभ्यां प्रयच्छति । दर्शनमोहनीयस्य प्राप्तो भागस्सर्वोऽपि मिथ्यात्वमोहनीयस्यैव भवति चारित्रमोहनीयभागन्तु द्वादशधा विभज्याद्यद्वादश कषायेभ्यो दीयते । मोहनीयशेषभागं द्विधा कृत्वा कषायमोहनीयाय नोकषायमोहनीयाय च दीयते । कषायमोहनीयभागं चतुर्धा विधाय संज्वलनक्रोधादिभ्यः, नोकषायमोहनीयभागं पञ्चधा कृत्वा बध्यमानवेदाय बध्यमानहास्यादियुगलाय भयजुगुप्साभ्याञ्च दीयते, नान्येभ्यो बन्धाभावात् । तथा वेदनीयायुर्गोत्रेषु यो मूलभाग आभजति स एषां स्वस्वैकप्रकृतेर्बध्यमानाया उपढौकते द्विप्रभृतीनाममीषां युगपद्वन्धाभावात् । नाम्नो भागस्तु यदा यदा यावत्यो बन्धमायान्ति तावतीभ्यस्तदा तदा समानतया विभज्य दीयते । विस्तरोऽन्यत्र ॥ अनुभागस्य कारणं काषायिका अध्यवसायाः, ते च द्विधा, शुभा अशुभाश्च, शुभैः क्षीरखण्डरसोपमाह्लादजनकभागं कर्मपुद्गलानामाधत्ते निम्बकोशातकीरसोपमञ्चाशुभैः, ते च शुभा अशुभा वाऽध्यवसायाः प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः शुभाः केवलं विशेषाधिकाः । यानेव ह्यनुभागबन्धाध्यवसायान् क्रमिकान् संक्लिश्यमानः क्रमेणाधोऽध आस्कन्दति तानेव विशुध्यमानः क्रमेणोर्ध्वमूर्ध्वमारोहतीति सोपानारोहणावतरणतुल्यानामुभयेषां साम्येऽपि क्षपकस्याध्यवसायविशेषे वर्तमानस्य श्रेणिमारोहतस्तेभ्यः प्रतिपाताभावेन शुभानामशुभापेक्षया विशेषत आधिक्यम् । एवञ्च येन केनाप्यध्यवसायेनानुभागनिमित्तेन जीवो योग्यपुद्गलादानसमये कर्मपरमाणौ प्रत्येकं रसस्य निर्विभागान् भागान् सर्वजीवेभ्योऽनन्तगुणानुत्पादयति, कर्मवर्गणान्तःपातिन कर्मपरमाणवो हि जीवग्रहणपूर्वं प्रायो
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy