SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ६१६ तत्त्वन्यायविभाकरे उपाय, पुं-खी-पुंस-हास्य-२१-१२-शो-भय-हुगुप्सा३५ (८) नव ५२नो नोपाय, म મેળવવાથી કષાય (૨૫) પચીશ પ્રકારનો થાય છે. શંકા - નવ પ્રકારના નોકષાયનું કષાયપણે કેવી રીતે? समाधान - पुरुष-स्त्री-नपुसंड अमत्र हो, हास्यषट सेट हास्य-ति-अति-मय-शो:हुगुप्सा३५ ७ (६)-अम (८) नोउषाय, उषायसाभी डोवाथी भेट षायना साथे पर्तत।-२डेता હોવાથી, આ તો દિગ્દર્શન છે. તેથી જે દોષવાળો જે કષાય છે, તે કષાયની સાથે રહેનારા (સહચારીઓ) હાસ્ય આદિ પણ તે દોષવાળા હોઈ તે કષાયનું કાર્ય કરનારા હોઈ હાસ્ય આદિમાં કષાયપણું છે. વળી ત્યાં પણ અલ્પ કાર્ય કરનારા હોઈ નોકષાયપણું છે, એમ સમજવું. चतुर्थं योगमाचष्टे - योगो मनोवाक्कायव्यापारः । तत्र सत्यासत्यमिश्रव्यवहारविषयकमनोवाग्व्यापारा अष्टौ, तथौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राऽऽहारकाऽऽहारकमिश्रकार्मणशरीरजन्यव्यापारास्सप्तेति पञ्चदशयोगाः ।११।। योग इति । युज्यतेऽनेनेतियोगः, तत्र यद्यपि बन्धेऽभीप्सितालब्धवस्तुलाभे मेलने संयोगे शब्दादीनां प्रयोगे समुदायशब्दस्यावयवार्थसम्बन्धे द्रव्यतो बाह्ये मनोवाक्कायव्यापारे भावतोऽध्यवसायविशेषे च योगशब्दो वर्त्तते तथापि प्रकृतोपयोगिनं तदर्थं सूचयितुं मनोवाक्कायव्यापार इत्युक्तत्वान्मनोवाक्कायव्यापार एवात्र विवक्षितः । सोऽयं योगो द्विविधः, द्रव्ययोगो भावयोगश्चेति । जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि मनोवागादिद्रव्याणि द्रव्ययोगः । जीवस्य परिणामविशेषो वीर्यस्थामादिशब्दवाच्यो भावयोगः । अयमपि द्विधा प्रशस्तोऽप्रशस्तश्चेति । तत्र प्रशस्तस्सम्यक्त्वादिरात्मनोऽपवर्गेण योजनात्, अप्रशस्तो मिथ्यात्वादिरष्टविधकर्मभिर्योजनात् । यद्वा मनोवाक्कायप्रवर्तकानि द्रव्याणि मनोवाक्कायपरिस्पन्दात्मो योगश्च द्रव्ययोगः, एतदुभययोगहेतुरध्यवसायो भावयोगः । तत्र द्रव्ययोगश्शुभोऽशुभो शुभाशुभश्च व्यवहारनयमात्रापेक्षया विधिमतिक्रम्य दानादिवितरणचिन्तनात्मक मनोयोगस्तथैव दानादिधर्मोपदेशात्मकवाग्योगस्तथैव जिनपूजावन्दनादिकायपरिस्पन्दात्मक काययोगश्च शुभाशुभो भवति । भावयोगस्तु शुभो वाऽशुभो वा न शुभाशुभरूपः, आगमे शुभाशुभात्मकाध्यवसायस्थानस्य तृतीयस्यानुक्तत्वात् । तदेवं योगा अनुपयुक्तस्य कर्मबन्धायोपयुक्तस्य च कर्मनिर्जराकारिणो भवन्ति । सोऽयं योगः स्वरूपेणैकोऽपि मनोवाक्कायलक्षणसहकारिभेदात्रिविधः, मनसा करणेन योगो मनोयोगो वाचा करणेन योगो वाग्योगः कायेन करणेन योगः काययोग इति । स वीर्ययोगो वीर्यान्तरायक्षयक्षयोपशमसमुत्थल
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy