SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ सूत्र - ९-१०, अष्टमः किरणः ५५७ જેમ કે-કડુચ્છક (કડછી) વગેરે ઉપકરણથી પટલક (પડલા) આદિ. દાન યોગ્યપણાએ દાયકે ઉપ્તિ (આપેલ) જો મળશે, તો “હું ગ્રહણ કરીશ,” ઇત્યાદિ રૂપ અભિગ્રહો છે, તેને અવલંબીને બીજી ભિક્ષાનો प्रतिरो५, ते 'वृत्तिसंक्षेप' उपाय छे. ૦ દત્તિઓના નિયમથી વૃત્તિસંક્ષેપ=એક દત્તિને આજે હું લઈશ, બે અથવા ત્રણ દત્તિઓને લઈશ, ઇત્યાદિ રૂપથી બીજી દત્તિઓનો પ્રતિરોધ પણ “વૃત્તિસંક્ષેપ' કહેવાય છે. ત્યાં દત્તિ એટલે પાત્રક આદિમાં પડલા આદિથી () જે એક બાજુથી અખંડ ધારાથી નાંખવું, તે “દત્તિ કહેવાય છે. અખંડ ધારાએ જે જળપ્રમુખ જેટલું દ્રવ્ય એકીસાથે દાતા આપે, તે દત્તિ-હાથથી-કડુચ્છકથી (કડછી આદિ સાધનથી) અથવા 331 (घा वगैरेनु पात्र, नानु पात्र-मुखी-सासी-थिपियो)थी ४ मापे, ते 'मिक्ष'-अम विशेष छे. रसत्यागस्वरूपं वक्ति - रसवत्पदार्थेषु द्वित्र्यादीनां त्यागपुरस्सरं विरसरूक्षाद्याहारग्रहणं रसत्यागः ।१०। रसवदिति । गुणविशेषवाचिनो रसत्यागपदघटितरसशब्दस्यात्र गुणिपरत्वमेव, रसवत्पदार्थपरित्यागस्यैवाभिमतत्वात्, शुक्लः पट इत्यादिवदतो रसत्याग इति लक्ष्यनिर्देशो द्रव्यत्यागपुरस्कारेणैव रसपरित्याग इति सूचयितुं रसवत्पदार्थेष्वित्युक्तं, न सर्वेषामेव रसवतां परित्यागो रसत्यागोऽपि तु द्वित्र्यादीनामपीत्याशयेनाह द्वित्र्यादीनामिति, अनशनेऽपि द्विव्यादिपदार्थपरित्यागोऽस्त्येव, तस्य सर्वपदार्थपरित्यागरूपत्वादित्याशंकायामाह विरसरूक्षादीति । न च रूपरसगन्धस्पर्शवन्तः पुद्गला इति नियमेन सर्वेषामेव पदार्थानां रसवत्त्वाद्विरसेति कथमिति वाच्यम्, प्रकृष्टरसशून्यताया एव विवक्षितत्वादिति भावः । विरसं विकृतिभिरसंस्पृष्टं, रूक्षं प्रकृष्टरसशून्यम् । चित्तविकारहेतुभूता हि पदार्था मद्यमांसमधुनवनीतात्मकाः क्षीरदधिघृततैलगुडावगाह्याश्च विकृतिरूपाः । मद्यं हि गुडपिष्टद्राक्षाखजूरांदिसम्भवं गणनातीतजीवोत्पत्तिस्थानं जीवस्यास्वातंत्र्यं विधत्ते, तेन चाक्रान्तः कृत्याकृत्यविवेकभ्रष्टो विनष्टस्मृतिसंस्कारो गर्हितमाचरत्येव । मांसं प्राणिशरीरावयवरूपमनन्तजन्तुप्रसवनिदानं प्राणव्यपरोपणमन्तरा, दुष्प्रापं, प्राणातिपातश्चातिदुःखप्रदत्वेन कृतकारितानुमतिभिस्सर्वथा परिहरणीयः । मांसञ्च वृष्यतमत्वादवश्यं गाद्धर्यहेतुत्वात्त्याज्यमेव । अन्नादयस्तु न तादृशाः । मधु च माक्षिककौतिकभ्रामररूपं त्रिविधमपि विना प्राणातिपातेन न सम्भवतीति तदपि त्याज्यमेव । गोमहिष्यजाविकसम्बन्धिनवनीतमपि वृष्यत्वात्परिहार्यमिति, प्रत्याख्यानमेतेषां द्रव्यक्षेत्रकालभावापेक्षया विवक्षितम् । गोमहिष्यजाविकोष्ट्री सम्बन्धित्वेन क्षीरविकृतिरपि पञ्चधा । दधिविकृतिस्तु करभीवर्जा चतुःप्रकारा । घृतविकृतिरपि दधिविकृतिवच्चतुर्धा । तिलातसीसिद्धार्थककुसुम्बकाख्यानि तैलानि । इक्षुविकारात्मिका गुडविकृतिः
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy