________________
४६७
सूत्र - ३८, सप्तमः किरणः भक्तजनानुष्ठितातिसत्कारेऽपि गर्वपराङ्मुखत्वं सत्कारपरीषहः । अयञ्च चारित्रमोहनीयक्षयोपशमजन्यः । बुद्धिकुशलत्वेऽपि मानापरिग्रहः प्रज्ञापरीषहः । ज्ञानावरणक्षयोपशमजन्यः । बुद्धिशून्यत्वेऽप्यखिन्नत्वमज्ञानपरीषहः । ज्ञानावरणक्षयोपशमजन्यः । इतरदर्शनचमत्कारदर्शनेऽपि स्वदेवतासान्निध्याभावेपि जैनधर्मश्रद्धातोऽविचलनं सम्यक्त्वपरीषहः । दर्शनमोहनीयक्षयोपशमजन्योऽयम् । ३८ ।
जीर्णशीर्णेति । गच्छनिर्गतानां गच्छवासिनाञ्च यतीनामशुषिरतृणस्य हि दर्भादेः परिभोगोऽनुज्ञातः, तत्र येषां शयनमनुज्ञातं ते तान् दर्भान् भूमावीषदातादियुक्तायामास्तीर्य दर्भाणामुपरि संस्तारकोत्तरपट्टौ च विधाय शेरते, चौरापहतोपकरणो वाऽत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते, तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाग्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितृणस्पर्शं सम्यक्सहेत, एवञ्च सति तृणपरीषहस्स्यादिति भावः । वधपरीषहादिवारणाय तृणानामित्यन्तम् । वेदनीयोदयप्रयुक्तत्वेन तृणस्पर्शवेदनायाः निखिलगुणस्थानेषु सम्भवोऽवसेयः ॥ मलपरीषहं निरूपयति-शरीरनिष्ठेति । शरीरनिष्ठो यो धर्माम्बुसम्बन्धजन्यो घनपरागव्रजः स्थिरतामापन्नो ग्रीष्मोष्मणा चार्द्रतां गतोऽत एव दुर्गन्ध उद्वेगकरश्च तस्यापनयनाय न कदापि जलाधवगाहनाभिलाषः कार्यः, सत्येवं मलपरीषहः स्यादिति भावः । लक्षणं स्पष्टम् । अस्यापि मलस्य वेदनीयोदयप्रयुक्तत्वं निखिलगुणस्थानसम्भवित्वं विज्ञेयम् । एषां रोगतृणस्पर्शमलपरीषहाणां वेदनीये सति चारित्रमोहनीयक्षयोपशमजन्यत्वमित्याहवेदनीयक्षयोपशमजन्या इति, वेदनीये सति चारित्रमोहनीयक्षयोपशमादिजन्या इत्यर्थः ॥ सत्कारपरीषहं वक्ति-भक्तजनेति । भक्तजनैरनुष्ठिता भक्तपानवस्त्रपात्रादिभिः कृतास्सत्काराः, सद्भूतगुणोत्कीर्तनवन्दनाभ्युत्थानासनप्रदानादिव्यवहाराश्च, एभिर्न मानमुद्वहेत्, नोत्कर्षाद्याकुलं चेतः कुर्यात्, अकृते वा सत्कारादौ न विषादमुपयायात ततश्च सत्कारस्य परिसहनं स्यादिति भावः । भक्तजनानुष्ठितसत्कारसम्बन्धिगर्वपराङ्मुखत्वं लक्षणम् । भक्तजनानुष्ठितेति स्वरूपविशेषणं, प्रज्ञापरीषहादिवारणाय सम्बन्ध्यन्तम् । सत्कारसम्बन्धिमानस्य चारित्रमोहनीयोदयप्रयुक्ततया नवमगुणस्थानं यावत्सम्भवेन तत्क्षयोपशमजन्यस्तत्परीषह इत्याहायञ्चेति ॥ अथ सम्यग्ज्ञानात्मकमोक्षमार्गाच्यवनफलकं प्रज्ञापरीषहमाचष्टे-बुद्धिकुशलत्वेऽपीति । बुद्ध्यतिशयप्राप्तौ हि न गर्वमुद्वहेत्, प्रज्ञाप्रतिक्षेपेणाप्यबुद्धिकत्वेन परीषहो भवति, नाहं किञ्चिज्जाने मूर्योऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणात्तज्जयो भवतीति भावः । विज्ञानप्रयुक्तमदनिरासत्वं लक्षणम् । सत्कारपरीषहवारणाय विज्ञानप्रयुक्तेति ।