SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ सूत्र - ३३, सप्तमः किरणः ४५१ जयानामात्यन्तिकनिवृत्तिसाधनसम्यग्दर्शनादितोऽच्यवनं कर्मनिर्जरणञ्च प्रयोजनम् । तत्र परीषहाः सोढव्याश्च नैगमसंग्रहव्यवहारर्जुसूत्रनयेनाविरतदेशविरतविरतानां भवन्ति, त्रयाणामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य च यथायोगं सकामाकामनिर्जराहेतोस्सम्भवात् । शब्दसमभिरूद्वैवम्भूतानां मतेन विरतस्यैव भवन्ति निरुपचरितपरीषहशब्दवृत्तेस्तत्रैव सम्भवात् । उत्पादकमेषां द्रव्यं नैगमनयेन जीवो जीवाः, अजीवोऽजीवाः, जीवाजीवौ, जीवा अजीवः, जीवोऽजीवाः, जीवा अजीवाश्चेत्यष्टौ । संग्रहनये जीवोऽजीवो वा, न द्वित्वबहुत्वे । व्यवहारेऽजीव एव, शेषाणां मतेन जीव एव परिषह्यमाणस्यैव परीषहत्वात्परिषहणस्योपयोगात्मकस्य जीवस्वाभाव्येन जीवद्रव्यत्वात् । गुणसंहतिरूपस्यैव द्रव्यत्वात् । तत्तल्लक्षणनिरूपणावसरे कर्मप्रकृतयः पुरुषाश्च वक्ष्यन्ते । एषणीयस्य अनेषणीयस्य चाग्रहणात् ग्रहणे वाऽपरिभोगात् नैगमसङ्ग्रहव्यवहाराणां मतेन सहनं भवति, स्थूलदर्शिनामेषामन्नादिपरिहारस्यैव क्षुधादिसहनत्वेनेष्टत्वात्, शेषाणां मतेन तु नाभुञ्जानस्यैव तत्सहनमपि तु प्रासुकमन्नादिकल्प्यञ्च गृह्णतो भुञ्जानस्याऽपि भवति भावप्रधानत्वात् । यदाश्रित्य क्षुधादिर्भवति तद्वस्त्वेव परीषह इति नैगमः, क्षुधादिजनिता वेदना तदुत्पादकञ्च परीषह इति सङ्ग्रहव्यवहारौ, वैदनां प्रतीत्य जीवे परीषह इति ऋजुसूत्रः, परीषहोपयुक्त आत्मैव परीषह इति शब्दसमभिरूढवम्भूताः । एकजीवापेक्षया जघन्योत्कृष्टत एषां वर्तनाऽग्रे वक्ष्यते । नैगमसङ्ग्रहव्यवहाराणां मतेन वर्षलक्षणं कालमाश्रित्य परीषहो भवति उत्पादकवस्तूनामपि परीषहत्वोक्तेः, ऋजुसूत्रमतेऽन्तर्मुहूर्त, वेदनाया उपयोगात्मिकायास्तावन्मानत्वात् । शब्दादिनयमतेन एक स्समयस्तन्मतेनोपयोगात्मकपर्यायस्य प्रतिसमयमन्यान्यत्वात् ॥ परीष नुवनिઅવતરણિકા-હવે સમિતિ-ગુપ્તિઓનું સંવરહેતુપણું કહીને સમિતિ-ગુપ્તિ બાદ ઉપદેશગ્રંથમાં કહેલ પરિષહના સ્વરૂપનું વર્ણન ભાવાર્થ - પ્રતિબંધકની સત્તા હોવા છતાં સમભાવથી સલાયમાન થવું નહિ, તે પરીષહ છે. १. चपेटादिना पुरुषेणोदीरितत्वाज्जीवो निमित्तं, बहुभिस्तथात्वे जीवाः, जीवप्रयोगरहितेन गृहपाताद्यचेतनेनोदीरितत्वादजीवः, बहुभिरजीवैस्तथात्वेऽजीवाः, लुब्धकेन बाणादिना तथात्वे जीवाऽजीवौ, अनेकैः पुरुषैरेकेन शिलादिना तथात्वे जीवा अजीवश्च, लुब्धकैरनेकैर्बाणादिभिस्तथात्वे जीवोऽजीवाश्च, बहुभिर्लुब्धकैर्बहुभिर्बाणादिभिस्तथात्वे तु जीवा अजीवश्चेति भावः । न द्वित्वबहुत्वे इति, सामान्यग्राहित्वादस्य नयस्येति भावः । अजीव एवेति, कर्मण एव कारणत्वात्तस्यैव च सर्वजनप्रतीतिनिमित्तत्वादिति भावः ॥
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy