SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६८ तत्त्वन्यायविभाकरे चित्तेन सह वर्त्तते इति सचित्तः, येन सचित्तस्य परिहारः परिमाणं वा कृतमनाभोगादिना सचित्तमधिकसचित्तं वा खादतस्तस्य सचित्ताहाररूपः प्रथमोऽतिचारः । सचित्तप्रतिबद्धस्सचेतनवृक्षादिसम्बद्धः, गुन्दादिः पक्वफलादिर्वा सचित्तान्तर्बीजः खजूरादिः तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः, अथवा बीजं त्यक्ष्यामि सचेतकत्वात्तस्य, कटाहं त्वचेतनत्वाद्भक्षयिष्यामीति धिया पक्वं खजूरादिफलं मुखे प्रक्षिपतस्सचित्तवर्जकस्य सचित्तप्रतिबद्धाऽहारो द्वितीयः । सम्मिश्रः अर्धपरिणतजलादिराईकदाडिमबीजपूरकचिर्भटिकादिमिश्रपूरणादिर्वा तिलमिश्रो यवधानादिर्वा, एतदाहारोऽप्यनाभोगातिक्रमादिनाऽतिचारः । अथवा सम्भवत्सचित्तावयवस्यापक्वकणिक्कादेः पिष्टत्वादिनाऽचेतनमिति बुद्धयाऽऽहारः सम्मिश्राहारो व्रतसापेक्षत्वादतिचार इति तृतीयः । अभिषवः सुरासौवीरकादिः सुरामध्वाद्यभिष्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगादिनाऽतिचार इति चतुर्थः । दुष्पक्वाहारः अर्द्धस्विन्नपृथुकतन्दुलयवगोधूमस्थमण्डक कङ्कडुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचित्तस्तावता परलोकमप्युपहन्ति, पृथुकादेर्दुष्पक्वतया सम्भवत्सचेतनावयवत्वात्पक्वेनतचेतन इति भुञ्जानस्यातिचार इति पञ्चमः, अमी पञ्च भोजनमाश्रित्य त्यक्तव्याः, भोगोपभोगोत्पादकं व्यापारमाश्रित्य तु पञ्चदशातिचारा धर्मसंग्रहादिग्रन्थेभ्योऽवसेयाः ॥ कन्दर्पः, कौत्कुच्यं, भोगभूरिता, संयुक्ताधिकरणत्वं, मौखर्यञ्चेति पञ्चातिचारास्तृतीयगुणव्रतस्य । तत्र हेतुः कामप्रधानो वाक्प्रयोगः कन्दर्पो मोहोद्दीपकं वा कर्मेति भावः । सामाचारी चात्र स्वस्य परस्य वा मोहोद्रेक जनकं हि वाक्यं श्रावकेण न वक्तव्यम्, अट्टहासोऽपि न कल्पते कर्तुं, यदि नाम हसितव्यमिति तदेवं प्रमादात्कुर्वतोऽतिचारः । कुत्सितं कुचति कुचभ्रूनयनोष्ठनासाकारचरणमुखविकारैस्संकुचतीति कुत्कुचः, कुदिति कुत्सायां निपातः, तस्य भावः कौत्कुच्यं, अनेकप्रकारा भण्डादिविडम्बनक्रियेत्यर्थः । अथवा कौकुच्यमिति नामत्वे कुत्सितः कुचः संकोचादिक्रियाभाक् तद्भावः कौकुच्यमिति विग्रहः । तत्र परे येन हसन्ति, आत्मनश्च लाघवं भवति तादृशं श्रावकस्य न वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातिचारः । भोगभूरिता भोगस्योपभोगस्य च स्नानपानभोजनचन्दनकुंकुमकस्तूरिकावस्त्राभरणादेः स्वस्वीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वम् । भोगबहुत्वस्य प्रमादविषयात्मकत्वात्प्रमादाचरितस्यातिचारः । अत्र सामाचारी-यधुपभोग्यानि तैलामलकादीनि बहूनि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिकः स्यात् स्यादेवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, तत्र को विधिरुपभोगे ? स्नानेच्छुना
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy