SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सूत्र - १७, सप्तमः किरणः ३५५ यो न जानाति न चाभ्युपगच्छति परं तु पालयति यथाऽज्ञानतपस्वी । यो न जानाति, अभ्युपगच्छति न तु पालनार्थं यतते यथाऽज्ञपार्श्वस्थसाधुः । यो न जानाति, अभ्युपगच्छति पालयति च यथाऽगीतार्थः । यो जानाति, नाभ्युपगच्छति, न च पालनाय यतते यथा श्रेणिकादयः । यो जानाति नाभ्युपगच्छति पालयति यथा-अनुत्तरदेवः । यो जानाति स्वीकुरुते न च पालयति यथा संविग्नपाक्षिकः । यो जानाति स्वीकरोति पालयति च यथा व्रतीति । तत्र प्रथमादिसप्तभङ्गेषु व्रतपरिपालनेऽपि निष्फलत्वेनाविरत एव भवति, सम्यग्ज्ञानग्रहणपूर्वकपालन एव साफल्यात् । आद्यचतुर्पु हि सम्यग्ज्ञानाद्यभावः, ततस्त्रिषु सम्यग्ज्ञानसत्त्वेऽपि भवति । यावद् द्वादशव्रतमेकद्विव्यादिव्रतधारणात् । यत्र परमेष्ठिनमस्कारमात्रनियमधारणमाकुट्टीस्थूलहिंसादित्यागो मद्यमांसादित्यागश्च सा जघन्या देशविरतिः । यत्र धर्मयोग्यतागुणा गृहस्थोचितानि षट् कर्माणि द्वादशव्रतपालनं सदाचारश्च भवति सा मध्यमा । सचित्ताहारवर्जनं सदैकासनभोजनमनिन्द्यब्रह्मचर्यव्रतपालनं महाव्रताङ्गीकारस्पृहा च यत्र भवति सोत्कृष्टा देशविरतिरिति बोध्यम् ॥ सर्वसावद्यस्यैकदेशाद्विरतस्येति, अवद्यं पापं तेन सह वर्त्तत इति सावा, हिंसाचौर्यादिगर्हितं कर्म, सर्वेभ्यः सावधेभ्यो विरतः प्रमत्तसंयतादिरपीत्येक देशेनेत्युक्तम्, प्राणातिपाताद्यन्यतमो देशः, निरपराधविनाशनादिरूपतदेकदेशो वा ताभ्यां विरत एकद्व्याद्यणुव्रतधरः श्रावको द्वादशव्रतधारीति भावः, तानि च व्रतानि अणुव्रतानि पञ्च गुणव्रतानि त्रीणि चत्वारि च शिक्षाव्रतानि । तत्राणूनि लघूनि व्रतानि प्राणातिपातादिविरमणरूपाणीत्यणुव्रतानि महाव्रतापेक्षयैषामल्पविषयत्वात्सर्वविरतापेक्षयाऽल्पगुणिपुरुषानुष्ठानरूपत्वाद्वा महाव्रतनिरूपणोत्तरकालमेवैषां निरूपणीयत्वादनु पश्चाद्वर्ण्यमानानि यानि व्रतानि तान्यणुव्रतानि, महाव्रतप्रतिपत्त्यसमर्थायैतन्निरूपणस्यावश्यकत्वात् । तत्र हिंसा प्रमादप्रयुक्त प्राणव्यपरोपणरूपा स्थूलसूक्ष्मभेदेन द्वैविध्यमश्नुते, स्थूलत्वं यन्मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धं त्रसविषयकत्वाद्वा, सूक्ष्मत्वञ्च पृथिव्यादिविषयम्, तथैव मृषावादादावपि भाव्यम्, तेभ्यस्स्थूलेभ्यो विरतिः पञ्चाणुव्रतशब्दवाच्या । साऽपि व्रतभङ्गेन भाव्या बाहुल्यात्, सामान्येन विरताविरतभेदेन श्राद्धानां द्वैविध्येऽपि विशेषतो द्विविधत्रिविधादिभङ्गभेदेनाष्टविधास्ते तथाहि-द्विविधं कृतं कारितं चेति, त्रिविधं मनसा वाचा कायेन, यथा स्थूलहिंसादिकं स्वयं न करोम्यन्यैर्वा न कारयामि मनसा वाचा कायेनेत्यभिग्रहवान् प्रथमः, नास्त्यस्यानुमति निषेधः, अपत्यादिपरिग्रहस्य सद्भावात्तैहिंसादिकरणे तस्यानुमतिप्राप्तेः, यद्यनुमतिरप्यस्य स्यात्स्यादविशेषः प्रव्रजिताप्रव्रजितयोस्तद्विषये । द्विविधं द्विविधेनेति द्वितीयो भङ्गः,
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy