SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमः किरणः इत्थं संक्षेपतो द्वाचत्वारिंशद्विधानाश्रवानाख्याय कर्मग्रहणकारणभूताश्रवस्य प्रतिद्वन्द्विभूतमपूर्वकर्मप्रवेशनिषेधफलकं संवरं लक्षणप्रकाराभ्यामभिधातुं तल्लक्षणमाचष्टे समित्यादिभिः कर्मनिरोधः संवरः । १ । समित्यादिभिरिति । समितिर्वक्ष्यमाणस्वरूपा सैवादिर्येषां गुप्तिपरीषहादीनां तैरुपायैः कर्मणामागन्तुकानां यो निरोधो निवारणं स संवर इत्यर्थः । उपात्तकर्मणां प्रध्वंसस्तु तपसा विपाकेन वा भवति । नन्वास्त्रवनिरोधो हि संवरः, उक्तञ्च 'आस्रवनिरोधः संवर' (९-१) इति, आस्रवाश्चेन्द्रियकषायादिरूपा न कर्मात्मकास्तथा च कथं कर्मनिरोधस्संवर उच्यत इति चेत्सत्यम्, कर्मागमनिमित्त आश्रवे निरुद्धे तत्पूर्वकस्यानेकदुःखबीजजनकस्य कर्मणोऽपि स्थगनात्कारणाभावस्य कार्याभावप्रयोजकतया तत्र प्रयोज्योपचारात्तथोक्तेरविरोधात् । प्रयोजकस्यैव वाऽऽश्रवनिरोधस्यात्र प्रयोज्योपचारतः कर्मनिरोधत्वोक्तेः । विनोपचारं निरुद्ध्यतेऽनेनेति व्युत्पत्त्या वा कर्मनिरोधपदेनाश्रवनिरोधस्यैव प्राप्तेः । तथानभिधानन्तु कर्मनिरोधस्याश्रवनिरोधप्रयुक्तत्वसूचनाय । एवं समित्यादयोऽप्याश्रवनिरोधे हेतुत्वेन संवरशब्दवाच्या भवन्ति । प्रायश्चेष्टारूपत्वात्समितयोऽपि गुप्तिविशेषा एव । चेष्टा हि कायवाङ्मनोव्यापारः, तत्रेर्यादाननिक्षेपोत्सर्गाः कायव्यापारे, एषणा मनोव्यापारे वाग्व्यापारे च भाषाऽन्तर्गता भवति । सुखबोधार्थमेव समितेः पृथगुपादानम् । तत्र रागद्वेषपरिणामात्मकार्त्तरौद्राध्यवसायान्निवृत्यैहिकामुष्मिकविषयेषु निराकृताभिलाषस्य पुंसो मनसो गुप्तत्वेन रागादिप्रत्ययं कर्म नास्रोष्यति, अप्रियादिवचनेषु वाग्व्यापारविरतस्य यथा शास्त्रं वाग्व्यवहरतो वाचो गुप्तत्वान्नाप्रियवचनादिहेतुकं कर्मास्रोष्यति, तथा कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयकक्रियाकलापकस्य समयविहितक्रियानुष्ठायिनः कायस्य गुप्तत्वाद्धावनवल्गनानवलोकितभूचं
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy