SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सूत्र - ४७-४८-४९-५०-५१, पञ्चमः किरणे २७१ साधारणेति स्वनिखिलभयकारणमित्यर्थः, पराघातेन तु सभ्यादीनां परेषामेव भयं भवति अनेन तु स्वस्येति भावः, स्थिती हास्यमोहनीयवत् ।। जुगुप्सामोहनीयमाख्याति बीभत्सपदार्थावलोकनजातव्यलीकप्रयोजकं कर्म जुगुप्सामोहनीयम् । ४८ । बीभत्सेति । यदुदयात् पुरीषादिबीभत्सपदार्थेषु जुगुप्सावान् भवति, शुभाशुभद्रव्यविषयकं वा व्यलीकमुपजायते, तज्जुगुप्सामोहनीयमित्यर्थः । स्थिती हास्यमोहनीयवत् ॥ पुरुषवेदस्वरूपमाचष्टे ___ स्त्रीमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म पुरुषवेदः । ४९ । स्त्रीमात्रेति । उद्रिक्तश्लेष्मण आम्रफलाभिलाष इव यस्योदये पुंसः स्त्रियामभिलाषो भवति, तृणाग्निज्वालासमानः स पुरुषवेद इत्यर्थः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रेति । पुरुषवेदमोहाग्ने शं ज्वलतस्समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते समासादिततृणपुलक स्येव, नातीव स्थास्नुरनुबन्धः । उत्कृष्टा स्थितिरस्य हास्यमोहनीयवत् जघन्या त्वष्टौ वर्षाणि, अबाधाऽन्तर्मुहूर्त्तकालः ।। स्त्रीवेदमाह ____पुरुषमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म स्त्रीवेदः । ५० । पुरुषमात्रेति । पित्तद्रव्योदये मधुराभिलाषवत् यस्योदये पुंस्यभिलाषः स्त्रियास्समुपजायते दृढतरखदिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनवत्, बहुतरकालावस्थायी चिरप्रशाम्यः संभाषणस्पर्शनेन्धनाभिवर्धितस्स स्त्रीवेदः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रपदम्, स्थिती हास्यमोहनीयवत् ॥ नपुंसकवेदमाख्यातिपुंस्त्रीसंभोगविषयकाभिलाषोत्पादकं कर्म नपुंसकवेदः ।इति कषायपञ्चविंशतिः ५१। पुंस्त्रीति । पित्तश्लेष्मोदये मज्जिकाभिलाष:वत् यस्योदये पण्डकस्य स्त्रीपुंसयोरभिलाषः समुदेति महानगरदाहदहनसन्निभकरीषकृशानुवदन्तर्विजृम्भमाणदीप्ततरकरनिकरो बहुतरकालप्रशमः स नपुंसकवेदः । स्त्रीपुरुषवेदयोरतिव्याप्तिवारणाय पुंस्त्रीति । स्थिती हास्यमोहनीयस्येव । इमान्येव पञ्चविंशतिकर्माणि विभागवाक्यघटककषायपञ्चविंशतिपदग्राह्याणीत्याहइतीति । षोडशकषाया नवनोकषायाश्चेति मिलित्वेत्यर्थः ।।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy