SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ - १०, चतुर्थ किरणे सूत्र - १८९ ઉપભોગવાળા છે એમ કહેલ છે. તે આ કથનથી (કાર્યણશરીરથી) માત્ર ઉપભોગનો જ-સુખ-દુઃખના ભોગનો જ માત્ર અભાવ છે એમ નહિ, પરંતુ અભિવ્યક્ત સુખ-દુ:ખ ઉપભોગના અભાવની સાથે કર્મબંધ, કર્મનો ઉદય, કર્મની ઉદીરણા અને કર્મની નિર્જરા રૂપ ઉપભોગનો જ અભાવ સમજવો. अर्थात् विग्रहगतिमां (स्वतंत्र - खे४) धर्मशशरीर, अभिव्यक्त सुख-दुःख-दुर्भ-बंध-वेधना-निर्भरा આદિ ઉપભોગ માત્રના અભાવવાળું હોઈ નિરૂપભોગ રૂપે કહેવાય છે. अथौदारिकाङ्गोपाङ्गनामकर्म वक्तुमादावङ्गोपाङ्गानि दर्शयति अङ्गानि शिरःप्रभृतीन्यष्टौ उपाङ्गानि तदवयवाङ्गुल्यादीनि, एतन्निमित्तमौदारिकशरीरसम्बन्धिकर्मौदारिकाङ्गोपाङ्गनाम । १० । अङ्गानीति । प्रभृतिपदेन वक्षः पृष्ठबाहूदरपादानां ग्रहणम्, बाहुद्वयं पादद्वयं पादद्वयञ्चादायाष्टत्वमङ्गानां भाव्यम् । उपाङ्गान्याह—उपाङ्गानीति । तदवयवाङ्गुल्यादीनीति, तेषामष्टानामवयवान्यङ्गुल्यादीन्युपाङ्गानीत्यर्थः । अङ्गुलयो बाहुपादयोरुपाङ्गभूताः, आदिपदेन शिरआदीनां ललाटतालुनयनकर्णादय उपाङ्गतया ग्राह्याः । यद्यप्यङ्गनिदर्शनभूतशिरसोऽनुगुणमुपाङ्गतया तदवयवललाटादीनामेव कथनं युक्तं तथापि तथोक्तावेकस्यैव शिरस उपाङ्गं दर्शितं भवेत्, अङ्गुल्यादीनीत्युक्तौ तु पाणिपादयोरुभयोरेकपदेन दर्शितं स्यादिति ग्रन्थलाघवैषिणा मया तथैवोक्तम्, तत्पदेनाष्टाङ्गानां बुद्धिस्थानां परामर्शसम्भवात् । तथाङ्गुल्यादीनामप्यवयवभूतानि पर्वरेखादीन्यङ्गोपाङ्गानि, एवञ्चाङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि चेति द्वन्द्व एकपदशेषेऽङ्गोपाङ्गानि, यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागेन परिणतिर्भवति तदौदारिकाङ्गोपाङ्गनामेत्यर्थः, औदारिकशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणं विशेषणविशेष्यपदकृत्यं पूर्ववत्, वैक्रियाङ्गोपाङ्गनामकर्मादावतिप्रसक्तिविच्छेदायौदारिकशरीरसम्बन्धीति, औदारिकशरीरसम्बन्धिकर्मत्वमित्युक्तौ कार्मणशरीरादावतिप्रसङ्गस्तस्यापि तत्कारणत्वेन तत्सम्बन्धिकर्मत्वात् । औदारिकशरीरसम्बन्धिनः प्रयोजककर्मत्वमित्युक्तौ तु वर्णगन्धादिनामकर्मण्यतिव्याप्तिर्वर्णादीनामौदारिकशरीरसम्बन्धिनः प्रयोजककर्मत्वमित्युक्तौ तु वर्णगन्धादिनामकर्मण्यतिव्याप्तिर्वर्णादीनामौदारिकशरीरसम्बन्धित्वादतोऽङ्गोपाङ्गेति पदम् । औदारिकशरीरवदस्य परा जघन्या च स्थितिर्बोध्या । 1 હવે ઔદારિક અંગોપાંગનામકર્મ કહેવા માટે પહેલાં અંગ-ઉપાંગોને દર્શાવે છે ભાવાર્થ- શિર વગેરે આઠ અંગો અને તે અંગના અવયવભૂત અંગુલ વગેરે ઉપાંગો, આ અંગોપાંગના નિમિત્તકારણભૂત ઔદારિકશરીર સંબંધી કર્મ ‘ઔદારિક અંગોપાંગ નામ.'
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy