SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १८० तत्त्वन्यायविभाकरे औदारिकेति । शीर्यत इति शरीरं प्रागवस्थातश्चयापचयाभ्यां प्रतिक्षणं विनाशीत्यर्थः । असारस्थूलद्रव्यवर्गणारब्धमौदारिकं, उत्तरशरीरापेक्षयाऽल्पद्रव्यं स्थूलं शिथिलनिचयञ्च । यस्य कर्मण उदयादौदारिकवर्गणापुद्गलान् गृहीत्वौदारिकशरीरत्वेन परिणमयति तत्कर्मौदारिकशरीरमित्यर्थः । न चैवं शरीरपर्याप्तिरपि तादृशत्वात्तत्रातिव्याप्तिरिति वाच्यम् । गृहीतपुद्गलानां शरीरतया परिणतेः शरीरनामकर्मणैव साध्यत्वात् आरब्धाङ्गसमाप्तेश्च पर्याप्तिनामकर्मसाध्यत्वेनातिव्याप्त्यभावात् । उक्तञ्च " ननु देहोच्छ्वासनामकर्मभ्यामेव सिद्धयत: देहोच्छ्वासौ किमेताभ्यां पर्याप्तिभ्यां प्रयोजनम् ? अत्रोच्यते पुद्गलानां गृहीतानामिहात्मना । साध्या परिणतिर्देहतया तन्नामकर्मणा । आरब्धाङ्गसमाप्तिस्तु तत्पर्याप्त्या प्रसाध्यते । एवं भेदः साध्यभेदाद्देहपर्याप्तिकर्मणो" रिति । विशेष्यविशेषणपदकृत्यं पूर्ववदेव । वैक्रियशरीरनामकर्मादावतिव्याप्तिवारणायौदारिकशरीरयोग्येति । ग्रहणमन्तरेण परिणमनासम्भवेन गृहीतेत्युक्तम् । शरीरतयेत्यनुक्तावौदारिकशरीरबन्धनेऽतिव्याप्तिरिति तस्योपादानम् । बन्धनस्य गृहीतानां गृह्यमाणानाञ्चौदारिकादिशरीरवर्गणापुद्गलानां परस्परसंश्लेषमात्रकारित्वादिति । अस्य च जघन्या परा च स्थितिः पञ्चेन्द्रियजातिवद्बोध्या । अथ वैक्रियशरीरनामाह - वैक्रियेति । विचित्रशक्तिकद्रव्यनिर्मापितं बहुतरद्रव्यं सूक्ष्मं घननिचयं च वैक्रियं । तथा च यस्य कर्मण उदयात् वैक्रियवर्गणापुद्गलान् गृहीत्वा वैक्रियशरीरत्वेन परिणमयति तद्वैक्रियशरीरनामकर्मेति भाव:, पदकृत्यं पूर्ववत् । परा स्थितिरस्य पञ्चेन्द्रियजातिवत् । जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधाऽन्तर्मुहूर्तम् । आहारकशरीरमाचष्टेआहारकेति । शुभतरशुक्लविशुद्धद्रव्यवर्गणाप्रारब्धं प्रतिविशिष्टप्रयोजनायाऽन्तर्मुहूर्त्तस्थितिकमाहारकं शरीरं सूक्ष्मपरिणामपरिणतं बहुतरपुद्गलद्रव्यारब्धञ्च । सर्वे लक्षणविचारा: प्राग्वद्भाव्याः । अस्योत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा त्वन्तर्मुहूर्त्तम्, जघन्यापि तथैव ॥ હવે ઔદારિક આદિ શરીરનામકર્મના સ્વરૂપને કહે છે. ભાવાર્થ- ઔદારિક શરીરયોગ્ય ગ્રહણ કરેલા પુદ્ગલોના ઔદારિક શરીરપણાએ પરિણમનમાં પ્રયોજક કર્મ ‘ઔદારિક શરીર,' વૈક્રિય પુદ્ગલોના વૈક્રિય શરીરપણાએ પરિણમનમાં હેતુકર્મ ‘વૈક્રિય શરીર’ અને આહારક પુગલોના આહા૨ક શરીરપણાએ પરિવર્તનમાં સમર્થ કર્મ ‘આહારક શરીર.' ९. यद्यप्यत्र बन्धनसंघातनामकर्मणी शरीरनामकर्मणो न प्रकृत्यन्तरमिति मत्वा न पृथगुपन्यस्ते, तथापि परस्परावियोगस्याविवरभावेनैकत्वरूपस्य तत्कार्यस्य दर्शनतो भवत एवैते इत्यतिव्याप्तिरादर्शिता ॥
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy