SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६० तत्त्वन्यायविभाकरे सुखदुःखाद्युत्पादसंभवादिति चेन्न, शरीराकारपरिणतपुद्गलानां साधारण्येन सुखदुःखवैषम्यस्य जीवेषु दृष्टस्यानुपपत्तेः, दृश्यते हि सुखित्वं कस्यचिदेव कदाचिदेव दुःखित्वञ्च तथा, भूतानामेव तन्निबन्धनत्वे वैचित्र्यमिदं न स्यादेव, न चैतद्वैषम्यं निर्निमित्तं, तथात्वे परमाणुवन्नित्यं सत्त्वं गगनकुसुमादिवन्नित्यमसत्त्वं वा स्यान्न तु कादाचित्कत्वं, न चाकस्मिकत्वमेव कादाचित्कत्वमिति वाच्यम्, कारणनिरपेक्षोत्पत्तिकत्वस्याकस्मिकत्वे निरन्तरोत्पत्तिप्रसङ्गात्, सामग्रीवैकल्यस्य वा प्रतिबन्धकस्य वा कस्यचिदभावात्, कारणोत्पत्तिभ्यां रहितत्वमेव तदिति चेत्तदा तयोनित्यत्वं वा, अत्यन्तासत्त्वं वा स्यात्, भवतु नित्यत्वमिति चेन्न तयोरुत्पादविनाशित्वेनानुभवात्, अत एव च नात्यन्तासत्त्वं, अथ नान्यस्मात् कस्मादपि भवनमपि तु स्वस्मादित्याकस्मिकत्वमिति चेदसतः स्वपदार्थत्वे तस्मात्कस्यचिदप्युत्पत्त्यभावात्, यदि स्वं सदेव तर्हि किमुत्पत्त्या, सत्त्वार्थमेवोत्पत्तेर्गवेषणात्, तस्मादवश्यं कारणेन केनापि भवितव्यमेव, भवतु तहि भूतातिरिक्तं किञ्चिदेकमेव तत्कारणमविलक्षणादपि कारणात् कार्यवैचित्र्यस्य प्रदीपादौ दर्शनात्, प्रदीपो हि प्रकाशकारी तैलविनाशकारी वर्त्तिविकारकारी चेति, तथापि वैचित्र्यानुपपत्तेः, सर्वे सुखिनो वा स्युर्दुःखिनो वा, दृश्यते च सुखादिवैचित्र्यं, तदवश्यमेव विचित्रस्य कर्मणः फलमभ्युपेयम् । अस्त्येव प्रदीपादावपि वैचित्र्यं, येन रूपेण प्रकाशकारी प्रदीपादिर्न तेन रूपेण वर्तिविकारकारी प्रतिक्षणं पर्यायभेदात्, न च स्रक्चन्दनवनितादयस्सुखस्य हेतवो विषाहिकण्टकादयस्तु दुःखस्येति प्रत्यक्षा एव सुखदुःखहेतवः किमदृष्टेन निमित्तान्तरेणेति वाच्यम्, व्यभिचारात् तादृग्वनितादिपदार्थसत्त्वेऽपि पुत्रादिवियोगव्यथितस्य सुखाभावात् सुखेऽपि दुःखेऽपि तारतम्यदर्शनात्, नैतददृष्टं कमपि हेतुमन्तरेण युज्यते, तदेव पुण्यपापात्मकं बहुविभेदमदृष्टं कर्मेत्युच्यते, ननु काणत्वखञ्जत्वादिशरीरादिवैलक्षण्येन यदि कर्म साध्यते तर्हि कार्यस्य मूर्त्तत्वेन कर्मापि मूर्त स्यादिति चेत्सत्यमस्माभिः प्रयत्नेन साधयितव्यस्य भवतैव साधनात् मूर्तमेव हि कर्म, तत्कार्यस्य शरीरादेर्मूर्त्तत्वात्, यस्य यस्य कार्य मूर्तं तत्तत्कार्यस्य कारणमपि मूर्तम्, यथा घटस्य परमाणवः, यच्चामूर्त कार्यं न तस्य कारणं मूर्तं यथा ज्ञानस्यात्मा । तथा मूर्तं कर्म, तत्सम्बन्धे सुखादि संविदस्ति, यथाऽऽकाशसम्बन्धे, एवं यत्सम्बन्धे वेदनोद्भवः तन्मूर्तं दृष्टं यथाऽनलः, भवति च वेदनोद्भवः कर्मसम्बन्धे तस्मात्तन्मूर्त, तथा मूर्तं कर्म, आत्मनो ज्ञानादीनाञ्च तद्धर्माणां व्यतिरिक्तत्वे सति बाह्येन स्रगादिना बलस्याधीयमानत्वाद् यथा स्नेहाद्याहितबलो घटः, आधीयते च बायैमिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy