________________
१०८
तत्त्वन्यायविभाकरे ____ननु निखिलमिदं तदा सङ्गच्छते यदा लक्ष्यभूतं धर्मद्रव्यं प्रमितं स्यात्, न ह्यप्रमितं लक्षयितुं शक्यमतिप्रसङ्गात्, तस्माच्छून्यमिदं जल्पनमित्याशङ्कायां तत्प्रमिणोति
तत्र प्रमाणं जीवपुद्गलानां गतिर्बाह्यनिमित्तापेक्षा
गतित्वाज्जलस्थमत्स्यादिगतिवदित्यनुमानम् । ३ । तत्रेति । तच्छब्देन लक्ष्यभूतधर्मद्रव्यपरिग्रहः, सप्तम्यर्थो विशेष्यत्वं, तस्य च प्रमाणपदवाच्यप्रमितिकरणत्वैकदेशे प्रमितावन्वयस्तथा च लक्ष्यभूतधर्मद्रव्यविशेष्यकप्रमित्यसाधारणकारणमित्यर्थस्तस्य चाग्रेतनेनानुमानपदेनान्वयः । जीवपुद्गलानामिति । गतिपरिणतानामित्यादिः, अन्यथा धर्मद्रव्यस्य बलात्तत्र गतिजनकत्वापत्तेः, न चेष्टापत्तिः, गतिपरिणतानां गति प्रति पोषकत्वाभ्युपगमात्, अनवरतगतिप्रसङ्गाच्च । बाह्यनिमित्तापेक्षेति, आन्तरनिमित्तजीवादिशक्तिमादाय सिद्धसाधनवारणाय बाह्येति । गतौ परिणामिकारणं जीवादिकं निर्वर्तककारणञ्चादाय सिद्धसाधनवारणाय कारणपदमुपेक्ष्य निमित्तपदग्रहणं कृतम् । यथा च स्वयमेव सञ्जातजिगमिषस्य मत्स्यस्य गतौ जलमनुपघातकं सन्निमित्ततयोपकारकं तथा स्वभावेन परिणतजीवपुद्गलगतिरप्यनुपघातकं किञ्चन द्रव्यं निमित्ततयोपकारकमपेक्षत एव, गतित्वस्योभयत्र समानत्वात्, न च तादृशं द्रव्यमाकाशं भवितुमर्हति, अवगाहनामात्रगुणत्वात्, नह्यन्यस्य धर्मोऽन्यस्य भवितुमर्हति तथा च सत्यप्तेजोगुणाद्रवदहनादयः पृथिव्या एव प्रसज्येरन् । आकाशस्यैव निमित्तत्वेऽलोकाकाशेऽपि गमनप्रसङ्गाच्च । न च कारणत्वमन्वयव्यतिरेकगम्यं, यथा जलादिसद्भावे मत्स्यादीनां गतिस्तदभावे च तदभाव इति, तथा च धर्मद्रव्यसत्त्वेऽपि जलाभावे मत्स्यादीनां गत्यभावाद्व्यभिचारेण न कारणत्वं गतौ तस्यापि तु जलस्यैवेति वाच्यम्, सत्यपि भूम्यादावधिकरणे गगनस्य सर्वाधारत्वमिव सत्यपि झषादिगतौ जलादीनां कारणत्वे सर्वेषां गतिसामान्यं प्रति निमित्तान्तरस्यापेक्षितत्वात् । न च देशान्तरप्राप्तिहेतुर्द्रव्यपरिणामविशेषो गतिस्तथा च देश एव गत्यपेक्षाकारणमस्त्विति वाच्यम्, देशविशेषाणां देशत्वेनानुगतरूपेण कारणत्वासम्भवात् तथा सति ह्यलोकेऽपि गमनं प्रेसज्येत, १. तदुक्तं 'परिणामी गतेधर्मो भवेत्पुद्गलजीवयोः । अपेक्षाकारणालोके मीनस्येव जलं सदा' इति । तथा यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, तथा धर्मोपि, शुद्धपदवाच्यत्वं च प्रमाणान्तरनाधितविषयत्वाख्य दोषरहितत्वेन, न च खपुष्पादिषु केनापि संकेतितैस्स्वादिशुद्धपदैरनेकान्तः, वृद्धपरम्परायातसंकेतविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वेन विवक्षणादिति ॥ २. न चेष्टापत्तिः, अलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्र प्रवेशाल्लोके द्वित्र्यादिजीवपुद्गलसत्त्वस्य सर्वथा तच्छून्यत्वस्य वा प्रसङ्गादिति ॥