SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ G000000 जैनाचार्य-श्रीमद्विजयकमलसूरिवर्य गुणस्तुत्यष्टकम् "शिखरिणीवृत्तम्।" सुरारातिक्षुब्धाऽमरमथितपीयूषजलधि-परिस्फूर्जत्तुङ्गोर्मिरुचिरुचिरं यस्य वचनम् । जनानामाल्हादं हृदि वितनुते तं गुणनिधिं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥१॥ क्व मे स्वामी धन्यः सकलजनचेतःसुखकरः, क्व ते नाथ: क्रूरो निखिलजनताखेदितमनाः । प्रतापौ संवादं तनुत इति यस्यापि च रवेः, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ २॥ निशाधीशज्योत्स्नानिवहविशदेलाधरशिर:-क्षरद्गंगावेलापटलविमलं यस्य वचनम् । सुभक्तानां नाशं नयति नितरां कल्मषचयं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ ३ ॥ समुद्रं गाम्भीर्यात्तरणिमपि तेजोभिरनघै-हिमांशुं वाक्च्छैत्याद्विमलधिषणातः सुरगुरुम् । यशोभिर्दिङ्नागान् व्यजयत मरालं च गतिना, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ ४॥ हिमक्ष्माभृत्पुत्रीचरणनतभूतेशमुकुट-पतद्गंगाधाराभरधवलबालेन्दुकररुक्। यशो विश्वे यस्य स्फुरति सततं तं श्रुतनिधिं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥५॥ सुरालीसंकल्पस्फुरदमरधेनुस्तनयुग-क्षरत्क्षीरश्रेणीरुचिरुचिरमाभाति वचनम्। यदीयं विश्वेऽस्मिन् सकलसुखसन्तानजननं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥६॥ शिवास्वामिस्फूर्जन्मुकुटरजनीनाथकिरण-वितानोद्योतिश्रीस्फटिकशिखरस्पद्धि सुतराम्। यशो यस्यात्यन्तं धवलयति दिङ्नागनिकरं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥७॥ नवीनादित्यांशुस्फुटबलभिदाशाक्षितिधर-शिरःस्मेराशोकाकुरनिकरविभ्राजि जगति। पुनीते भव्यान् यच्चरणकमलद्वन्द्वममलं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥८॥ प्रशस्तिः បានប្រាក់ "गुणश्रीपाथोधेरमरविजयस्याऽमलमतेः, क्रमाम्भोरुट्सेवाकरणचतुरो हृष्टहृदयः। हयाश्वाङ्केन्द्व (१९७७)चतुरविजयः पावनहृदो-ऽकृताऽऽचार्यस्य श्रीविजयकमलस्याऽष्टकमिदम्॥९॥" (रचयिता-मुनि चतुरविजय) 12
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy