SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सूत्र શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ चतुर्थ्यां पारणविधिराचाम्लेन परिमितभिक्षेणेति, एवमासां चतसृणामपि कालः पञ्च वर्षाणि मासद्वयमष्टाविंशतिर्दिवसा इति । सम्प्रति रत्नावल्याः स्थापना, चतुर्थषष्ठाष्टमानि ततोऽष्टमान्यष्टौ, पुनश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिषड्विशत्यष्टाविंशतित्रिंशद्वात्रिंशच्चतुस्त्रिंशद्भक्तानि, ततश्चतुस्त्रिंशत्सङ्ख्यान्यष्टमभक्तानि ततः परमाद्यमर्द्ध चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति, अस्याश्चाष्टाशीतिः पारणादिवसास्तैः सह तपोदिवसा एकस्थीकृताः एष पिण्डितः कालो वर्षं पञ्च मासा द्वादश दिवसाः, चतस्रो रत्नावल्य इत्येष राशिः संवत्सरादिश्चतुर्गुणो, जातो वर्षाणि पञ्च नव मासा अष्टादश दिवसाः, पारणाविधिः पूर्ववत् । साम्प्रतं मुक्तावली - तत्रादौ चतुर्थषष्ठौ ततश्चतुर्थाष्टमे ततश्चतुर्थद्वादशे चतुर्थचतुर्दशे चतुर्थषोडशे चतुर्थाष्टादशे चतुर्थविंशतितमे चतुर्थद्वाविंशे चतुर्थचतुर्विंशे चतुर्थषड्विंशे चतुर्थाष्टाविंशे चतुर्थत्रिंशद्भक्ते चतुर्थद्वात्रिंशद्भक्ते चतुर्थचतुस्त्रिंशद्भक्ते, अतः परमन्यदर्थं चतुस्त्रिंशद्भक्तादि प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति, अत्र त्रीणि दिनशतानि षष्ट्यधिकानि वर्षमेकं एतच्चतुर्गुणं जातं वर्ष चतुष्टयं, पारणादिनान्यपि क्षेप्याणि, विधिश्च पूर्ववत् । तथा अपरस्तपोविशेषः सिंहविक्रीडिते द्वे क्षुल्लकसिंहविक्रीडितं महासिंहविक्रीडितं च, तत्र क्षुल्लकसिंहविक्रीडितस्य रचना - चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडशविंशे, ततोऽष्टादशं पुनराद्यार्द्धमेव प्रतिलोमं रचनीयं विशषोडशादिकं यावत् पर्यन्ते चतुर्थभक्तमिति, षड्भिर्मासैः सप्तभिश्च दिवसैः परिसमाप्तिः, एतच्चतुर्गुणं जातं वर्षद्वयं दिनान्यष्टाविंशतिः त्रयस्त्रिंशत् पारणादिवसा इति । , ૪૫ ,
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy