SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सूत्र-६ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ ४३ संयम इति व्यापारणमेव, अव्यापारणं उपेक्षणं गृहस्थान् स्वक्रियासु अव्यापारयत उपेक्षमाणस्य-औदासीन्यं भजतः संयमो भवति, अपहृत्यसंयम इति प्रोज्झ्य-परिवर्ण्य संयमं लभते, वस्त्रपात्राद्यतिरिक्तमनुपकारकं चरणस्य वर्जयतः संयमलाभः, भक्तपानादि वा संसक्तं विधिना परित्यजत इति, प्रमृज्यसंयमः इति प्रेक्षिते स्थण्डिले रजोहत्या प्रमार्जनमनुविधाय स्थानादि कार्य, पथि वा गच्छतः सचित्तमिश्रपृथिवीकायरजोऽनुरञ्जितचरणस्य स्थण्डिलात् स्थण्डिलं क्रामतोऽस्थण्डिलाद्वा स्थण्डिलं प्रमृज्य चरणौ संयमभाक्त्वमगार्यादिरहिते, अन्यथा त्वप्रमार्जयत एव संयम इति । कायसंयम इति धावनवल्गनप्लवनादिनिवृत्तिः शुभक्रियासु च प्रवृत्तिः, वाक्संयमो हिंस्रपरुषादिनिवृत्तिः शुभभाषायां च प्रवृत्तिः, मनःसंयमः अभिद्रोहाभिमानेादिनिवृत्तिः धर्मध्यानादिषु च प्रवृत्तिः, उपकरणसंयम इत्यजीवकायसंयमः, अजीवकायश्च पुस्तकादिः, तत्र यदा ग्रहणधारणशक्तिसम्पद्भाजोऽभवन् पुरुषा दीर्घायुषश्च तदा नासीत्प्रयोजनं पुस्तकैः, दुष्षमानुभावात्तु परिहीणैर्ग्रहणधारणादिभिरस्ति निर्युक्त्यादिपुस्तकग्रहणानुज्ञेत्येवं यथा कालमपेक्ष्यासंयमः संयमो वा भवतीति संयमो धर्मः । सम्प्रति तपः प्रस्तावायातमुच्यते-तपो द्विविधमित्यादि तपतीति तपः, कर्त्तर्यसुन्, संयमात्मनः शेषाशयविशोधनार्थं बाह्याभ्यन्तरतापनं तपः, शरीरेन्द्रियतापात् कर्मनिर्दहनाच्च तपः, अपर आह-विशेषेण कायमनस्तापविशेषात् तपः, द्विविधमिति बाह्यमभ्यन्तरं च, बाह्यमिति बाह्यद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच्च, अभ्यन्तरं अन्यतीर्थिकानभ्यस्तत्वाद् अन्तःकरणव्यापारस्य प्राधान्याद् बाह्यद्रव्यानपेक्षत्वाच्च, अन्ये त्वाहुः-परप्रत्यक्षं बाह्यं, स्वप्रत्यक्षमभ्यन्तरं, अथवा आतापनादिः कायक्लेशस्तपो बहिर्लक्ष्यत इति बाह्यं, अनशनादिभ्योऽपि बहिस्तरां वर्त्तत इति तदुपलक्षितं बाह्यं, नैवं प्रायश्चित्तादिः, तत् परस्तादुपरिष्टाद्वक्ष्यते अनशनावमौदर्यादि प्रायश्चित्तविनयादि च यथाक्रम, इह त्वशून्यार्थं
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy