SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ३८ श्री तत्वाषिरामसूत्र अध्याय-& सूत्र-६ परिनिष्ठास्यतीति सापायमवगत्य बुद्धिगर्वमित्थं चिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचिदहङ्कारस्य कारणीभवन्ति, मानपरस्य च विनयखण्डनमवश्यंभावि, विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवर्ज़नीयः ।। श्रुतं-आप्तप्रणीत आगमः तत्परिज्ञानात् माद्यति-अहमेव जाने नापर इति, श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थं आलोचयेत्-प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्येभ्योऽल्पश्रुतोऽतिगहनार्थत्वादागमानां, अवगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान्, अपि चचतुर्दशपूर्वधरेष्वपि षट्स्थानकमवघुष्यते यदि तत्र का कथा शेषश्रुतधरेषु?, श्रुतज्ञानावरणक्षयोपशमवैचित्र्यादधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति । लम्भनं लाभ:-प्राप्तिः विशिष्टफलस्य, सत्कारसन्मानादयः नृपतिसन्मित्रभृत्यस्वजनेभ्यो विज्ञानतपोऽभिजनशौ-द्याधिक्यादहं लभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति, तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति, सर्वोऽप्ययं लाभमदः, स त्वेवं निग्रहीतव्यो-लाभान्तरायकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच्च सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को, न तु शाश्वतः, कर्मायत्तत्वात्, संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः, वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । वीर्यं पराक्रमः शक्तिरुत्साहः सामर्थ्यमतिशयवती चेष्टेति पर्यायाः, वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्यं बलविशेषः तेन वीर्येण माद्यतीति वीर्यमदः तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वाद् वीर्यस्य चाशाश्वतत्वात्, तथाहि
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy