________________
સૂત્ર-૫
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ प्रावचनेन विधिनाऽनुगता आदाननिक्षेपणासमितिः, उत्सर्जनमुत्सर्गः, उत्सर्जनमाहारोपधिशय्योच्चारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः, ईर्यादयः कृतद्वन्द्वाः समितिशब्दसमानाधिकरणा इति । अमुमर्थं भाष्येण स्पष्टयति-सम्यगीर्येत्यादिना सम्यग्-आगमपूर्विका ईर्या-गमनमात्मपरबाधापरिहारेण, यथोक्तं
"पुरओ जुगमायाए, पेहमाणो महिं चरे । वज्जेंतो बीअहरिआई, पाणे य दगमट्टिअं ॥१॥
ओवायं विसमं खाणुं, विज्जलं परिवज्जए । संकमेण न गच्छिज्जा, विज्जमाणे परक्कमे ॥२॥" सम्यग्भाषाऽप्यागमानुवर्तिनी, "जा य सच्चा न वत्तव्वा, सच्चामोसा य जा मुसा । जा य बुद्धेहिऽणाइण्णा, ण तं भासेज्ज पण्णवं ॥३॥"
सम्यगेषणा-गवेषणा आगमविधिना पिण्डादीनां, सम्यगादाननिक्षेपौ प्रत्युपेक्षणप्रमार्जनपूर्वकौ, सम्यगुत्सर्गः स्थण्डिले व्यपगतप्राणिके, इतिशब्दः स्वरूपप्रतिपादनार्थः, एवंस्वरूपाः पञ्चैव समितयः,
तदेव स्वरूपं प्रपञ्चयति-तत्रेत्यादि, तत्र तासु समितिषु ईर्यासमितिरित्थंरूपा अवश्यकार्ये चेत्यवश्यं कार्य-कर्त्तव्यं यदागमोदितं प्रयोजनं विहारादि-भूगमनं, तदेव भूयः स्पष्टयति-संयमार्थमिति, संयमः सप्तदशभेदः, तदेव चावश्यकमवश्यंतया कर्त्तव्यं, सर्वतः इति सर्वत्र युगप्रमिते भूप्रदेशे, पादाग्रादारभ्य यावद्युगमात्रं तावनिरीक्षणेत्यर्थः, युक्तः आयुक्तः, तस्यैवं चेष्टमानस्य शनैः शनैर्मन्दं गतिभेदमकुर्वतो न्यासं चरणयोराचरत ईर्यासमितिः ।
सम्प्रति भाषासमितिनिरूपणायाह-हितमित्यादि, आत्मने परस्मै च हितमायत्यां तदात्वे चोपकारकं मुखवसनाच्छादितास्येन, नातिबहु,