SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ सूत्र-३७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ ૨૩૩ लोकस्य तावत्, तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥१॥ तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः, असङ्ख्येयद्वीपसमुद्रा वलयाकृतयो, धर्माधर्माकाशपुद्गलजीवास्तिकायात्मकाः अनादिनिधनाः संनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च, तथाऽऽत्मनामुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीरादिरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्तौ त्रिभागहीनाकारमूर्ध्वलोको द्वादशविकल्पः असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकानि पञ्च महाविमानानि मुक्ताधिवासश्च, अधोलोकोऽपि भवनवासिदेवनारकाधिवसतिः, धर्माधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, पुद्गलद्रव्यं शरीरादिकार्यमित्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते, पदार्थस्वरूपपरिज्ञाने तत्त्वावबोधः, तत्त्वावबोधाच्च क्रिया, अनुष्ठानान्मोक्षप्राप्तिरिति, तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं, प्रमत्तसंयतस्थानादिशुद्ध्यमानाध्यवसायोऽप्रमत्तसंयतस्थानमाप्नोति, यथोक्तम्निर्शाता एव तथाविशोधयोऽसङ्ख्यलोकमात्रास्ताः । तरतमयोगायुक्तास्ता अधितिष्ठत्यप्रमत्तः स्यात् ॥१॥ अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगेन कर्माणि क्षपयतो विशोधिस्थानान्तराण्यारोहत ऋद्धिविशेषाः प्रादुर्भवन्ति अणिमादयः, उक्तं हि "अवगाहते च स श्रुतजलधि प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धीर्वा ॥१॥ चारणवैक्रियसौषधताद्या वाऽपि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ॥२॥"
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy