________________
૨૧૨ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૨૭. ટીકાવતરણિકાW– સમ્યક્ત્વ વગેરે ત્રણ મોક્ષસાધન છે. તેમાં પણ ધ્યાન શ્રેષ્ઠ છે. ધ્યાનનું નિરૂપણ કરવા માટે કહે છે– ध्यानतुं सक्षउत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥९-२७॥
સૂત્રાર્થ– ઉત્તમસંઘયણવાળા જીવની એક આલંબનમાં ચલચિત્તની स्थिरता ते ध्यान. (८-२७) ।
भाष्यं- उत्तमसंहननं वज्रर्षभमर्धवज्रनाराचं च । तद्युक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥९-२७॥
ભાષ્યાર્થ-વજઋષભનારા, ઋષભનારા, નારા અને અર્ધનારાચ उत्तम संघय छे. तेनाथी युतिनो मेथितनिरोष ध्यानछे. (८-२७)
टीका- उत्तम प्रकृष्टं संहननमस्थ्नां बन्धविशेषः उत्तमं संहननमस्येत्युत्तमसंहननः, तदुत्तमसंहननं चतुर्विधं इत्यादिना दर्शयति चातुर्विध्यं, वज्रर्षभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्या, वृत्त्यर्थको नाराचशब्दः प्रत्येकं सम्बध्यते एते उत्तमसंहननवाच्याः, उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थं, तस्योत्तमसंहननस्य एकाग्रचिन्तानिरोधो ध्यानं अग्रं-आलम्बनं एकं च तदग्रं चेत्येकाग्रमेकमालम्बनमित्यर्थः, एकस्मिन्नालम्बने चिन्तानिरोधः चलं चित्तमेव चिन्ता तन्निरोधस्तस्यैकत्रावस्थापनं अन्यत्राप्रचारो निरोधः, अतो निश्चलं स्थिरमध्यवसानमेकालम्बने छद्मस्थविषयं ध्यानं, केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानं, अभावान्मनसः, न ह्यवासकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति, तद्युक्तस्येति तेन विशिष्टेन संहननत्रयेणाद्येन चतुर्विधेन वा युक्तस्य सम्पन्नस्य एकाग्रचिन्तानिरोधश्च चशब्दाद्वाक्कायनिरोधश्च ध्यानं, अत्र च ध्याता संसार्यात्मा, ध्यानस्वरूपमेकाग्रचिन्तानिरोधो, संहननानि ध्याननिमित्तं, ध्याति-ानमिति भावसाधनः, उत्तमसंहननपदार्थगम्यो । ध्याताऽभिहितो, ध्यानस्वरूपं भावसाधनता च विज्ञेया ॥९-२७॥