SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૯ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ ૧૬૭ इङ्गिनीमरणं, अयमपि प्रव्रज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुद्ध्य आत्तनिःशेषोपकरणः स्थावरजङ्गमप्राणिविवर्जितस्थण्डिलस्थाय्येकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायाया उष्णे उष्णात् छायायां क्रामन् सचेष्टः सम्यग्ज्ञानपरायणः प्राणान् जहात्येतदिङ्गिनीमरणमपरिकर्मपूर्वकं चेति २, भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित्रिविधाहारप्रत्याख्यायी कदाचिच्चतुर्विधाहारप्रत्याख्यानो वा, पर्यन्ते कृतसमस्तप्रत्याख्यानः समाश्रित्य मृदुसंस्तारकः समुत्सृष्टशरीराधुपकरणममत्वः स्वयमेवोद्ग्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालम्, एतद् भक्तप्रत्याख्यानं मरणमिति ३ ।। उक्तमनशनमवमौदर्यमुच्यते-अवमौदर्यमित्यवमं न्यूनं नामेत्यादि, अवमं न्यूनमुदरं यस्यासाववमोदरः तद्भावोऽवमौदर्य-न्यूनोदरता, कवलप्रमाणनिरूपणार्थमाह-उत्कृष्टावकृष्टौ इत्यादि, उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणं कृत्वा यः प्रक्षिप्यते अवकृष्टस्त्वत्यन्तलघुकस्तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्य, तच्च त्रिविधमवमौदर्य, तद्यथेत्यादिना प्रत्यक्षीकरोति, अल्पाहारावमौदर्यमुपार्द्धावमौदर्य प्रमाणप्राप्तात् किञ्चिदूनावमौदर्यमिति, तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः, कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्य, उपार्द्धावमौदर्य द्वादश कवलाः, अर्द्धसमीपमुपार्द्धं द्वादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमर्द्धं भवति, प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स चैकेन कवलेन न्यूनं किञ्चिदूनावमौदर्यं भवति, इतिशब्दः प्रकारार्थः, प्रमाणप्राप्तावमौदर्यं चतुर्विंशतिः कवलाः, त्रिविधावमौदर्ये एकैककवलह्रासेन बहूनि स्थानानि जायन्ते, सर्वाणि चावमौदर्यविशेषाः कवलपरिसङ्ख्यानं चेति, पुरुषस्य द्वात्रिंशत् योषितोऽष्टाविंशतिः, अतो विभागः कार्यः ।
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy