________________
૧૫૫
सूत्र-१८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ ભાષ્યાર્થ– સામાયિકસંયમ, છેદોપસ્થાપ્યસંયમ, પરિહારવિશુદ્ધિસંયમ, સૂક્ષ્મપરાયસંયમ અને યથાખ્યાતસંયમ એમ પાંચ પ્રકારનું ચારિત્ર છે. તેને પુલાકાદિના વર્ણનમાં (સૂત્ર ૪૮માં) વિસ્તારથી કહીશું. (८-१८)
टीका- सामायिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, एकमेव चारित्रं संयमभेदं मन्यमानो भाष्यकृदाह-सामायिकसंयम इत्यादि, सर्वसावद्ययोगविरतिलक्षणं सामायिकं, तद्विशेषा एव च च्छेदोपस्थाप्यादयो विशुद्धतराध्यवसायविशेषाः, सावद्ययोगविरतिरूपं सामायिकं द्विप्रकारं-इत्वरकालं यावज्जीविकं च, तत्राद्यं प्रथमान्त्यतीर्थकरतीर्थयोः प्रव्रज्याप्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः छेदोपस्थाप्यसंयमारोपणं विशिष्टतरत्वाद्विरतेः सामायिकव्यपदेशं जहातीत्यत इत्वरकालं, मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावज्जीविकं प्रव्रज्याप्रतिपत्तिकालादारभ्य प्राणप्रयाणकालादवतिष्ठते १ ।
प्रथमान्ततीर्थकरशिष्याणां सामान्यसामायिकपर्यायच्छेदो विशुद्धतरायां सर्वसावद्ययोगविरताववस्था विविक्ततरमहाव्रतारोपणं छेदोपस्थाप्यसंयमः, छेदोपस्थापनमेव छेदोपस्थाप्यं, पूर्वपर्यायच्छेदे सति उत्तरपर्याये उपस्थापनं, भावे यतो विधानात्, तदपि द्विधा-निरतिचारसातिचारभेदेन, तत्र शैक्षस्य निरतिचारमधीतविशिष्टाध्ययनविदः, मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्याणामिति, सातिचारं तु मूलगुणस्थानस्य पुनर्वतारोपणाच्छेदोपस्थाप्यं, उभयं चैतत् सातिचारं निरतिचारं च स्थितकल्प एव, आद्यान्ततीर्थकरयोरेवेत्यर्थः२ ।
परिहारः-तपोविशेषस्तेन विशुद्धं परिहारविशुद्धिकं, तदपि द्वेधानिविश्यमानकं निविष्टकायिकं च, तत्र निविश्यमानकमासेव्यमानकं, परिभुज्यमानकमित्यर्थः, निविष्टकायिकमासेवितमुपभुक्तं, तत्सहयोगात् तदनुष्ठायिनोऽपि निविश्यमानकाः, निविष्टकायिकास्तु निविष्टः कायो