SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ૧૩૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सूत्रजिनकल्पादीनां गच्छवासिनां च पारमार्षप्रवचनानुसारिणां नाग्न्यपरीषहजयः सम्भवतीति नान्येषाम् ६, __ अरतिरुत्पद्यते कदाचिद्विहरतस्तिष्ठतो वा, सूत्रोपदेशात् तत्रोत्पन्नारतिनापि सम्यग्धर्मारामरतिनैव भवितव्यं, एवमरतिपरीषहजयः ७, स्यादिति, न स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टाः चिन्तयेत् न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासु कामबुद्ध्या, एवं स्त्रीपरीषहजयः कृतो भवति, ८, वर्जिताऽलस्यः ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः ९, निषीदन्त्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिना तत्रानुद्विग्नेन निषद्यापरीषहजयः कार्यः १०, शय्या-संस्तारकश्चम्पकादिपट्टो वा मृदुकठिनादिभेदेनोच्चावचः, प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरे बहुधर्मको वा तत्र नोद्विजेत कदाचनेति शय्यापरीषहजयः ११, आक्रोशः अनिष्टवचनं तद् यदि सत्यं कः कोपः ? शिक्षयति हि मामयमुपकारी न पुनरेवं करिष्यामीति, असत्यं चेत् सुतरां कोपो न कर्तव्य इत्याक्रोशपरीषहजयः १२, वधः-ताडनं पाणिपाणिलताकशादिभिस्तदपि शरीरकमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलसंहतिरूपं, आत्मा पुनर्न शक्यत एव ध्वंसयितुमतः स्वकृतकर्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः १३, याचनं-मार्गणं भिक्षोर्वस्त्रपात्रान्नपानप्रतिश्रयादेः परतो लब्धव्यं सर्वमेव साधुना अतो याचनमवश्यमेव कार्यमित्येवं याञ्चापरीषहजयो विधेयः १४,
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy