SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ૧૩૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ સૂત્ર-૯ दशविधसामाचार्यां चेमाः पञ्च तेषां सामाचार्य:-आच्छना मिथ्यादुष्कृतमावश्यकी निषीधिकी गृहस्थोपसम्पच्च, उपरितनी वा त्रिप्रकारा सामाचारी, आवश्यक्यादिका, श्रुतसम्पदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः, तत्र हि कालः परिज्ञेयो न्यक्षेण उत्कृष्टेन दश पूर्वाणि भिन्नानि, न सम्पूर्णानि, वज्रर्षभनाराचसंहननाश्च ते वज्रकुड्यकल्पधृतयः, स्थितिरपि तेषां क्षेत्रादिकाऽनेकभेदा, क्षेत्रतस्तावत् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूमौ वा, अवसर्पिण्यां कालतः तृतीयचतुर्योः समयोः जन्म, त्रिचतुर्थपञ्चमीषु सद्भावः, चतुर्थ्यां लब्धजन्मा पञ्चम्यां प्रव्रजति, उत्सप्पिण्यां दुष्षमाद्यासु त्रिषु कालविभागेषु जन्म, द्वयोस्तु सद्भावः, सामायिकच्छेदोपस्थाप्ययोर्जिनकल्पप्रतिपत्तिः चरणयोः, एवं तीर्थपर्यायागमवेदादिकाऽपि स्थितिरुपयुज्यागमानुसारेण वाच्या, ननु च अचेलकादिर्दशविधः कल्पस्तत्राचेलक्यं स्फुटमेवोक्तं , तत्र मध्यमतीर्थकरतीर्थवर्त्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यंतया करणीयः, यथाह "शय्यातरपिण्डत्यागः कृतिकर्म च तथा व्रतादेशः । पुरुषज्येष्ठत्वं च हि चत्वारोऽवस्थिताः कल्पाः ॥१॥" षड्विधश्चानवस्थितकल्पः, यथोक्तं"आचेलक्यौद्देशिकनृपपिण्डत्यागमासकल्पाश्च । वर्षाविधिः प्रतिक्रमणविधानं चानवस्थिताः कल्पाः ॥१॥" आद्यचरमतीर्थङ्करतीर्थवर्त्तिनां तु दशविधोऽप्यवस्थितः कल्पः । "अस्य तु पुनर्भगवतस्तीर्थङ्करवर्द्धमानचन्द्रस्य । स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ॥१॥" किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनं ?, "आर्जवजडा अनार्जवजडाश्चेति वृषभवीरतीर्थकालभवाः । मनुजा यस्मात्तस्मात् कल्पः स्थित एव स प्रोक्तः ॥१॥"
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy