SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सूत्र-७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत्कथमशुचीति चेद्, आधुत्तरकारणाशुचित्वाद्, अशुचिभाजनत्वादशुच्युद्भवत्वाद्, अशुभपरिणामपाकानुबन्धाद्, अशक्यप्रतीकारत्वाच्चेति । तत्राद्युत्तरकारणाशुचित्वात्तावच्छरीरस्याचं कारणं शुक्रं शोणितं च तदुभयमत्यन्ताशुचीति । उत्तरमाहारपरिणामादि । तद्यथा । कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽत्यन्ताशुचिर्भवति । ततः पित्ताशयं प्राप्य पच्यमानोऽम्लीकृतोऽशुचिरेव भवति । पक्वो वाय्वाशयं प्राप्य वायुना विभज्यते-पृथक् खलः पृथग् रसः । खलान्मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति रसाच्छोणितं परिणमति, शोणितान्मांसम्, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मज्जा, मज्जाभ्यः शुक्रमिति । सर्वं चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति । तस्मादाद्युत्तरकारणाशुचित्वादशुचि शरीरमिति । किञ्चान्यत् अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्णनासाक्षिदन्तमलस्वेदश्लेष्मपित्तमूत्रपुरीषादीनामवस्करभूतं तस्मादशुचीति । किञ्चान्यत् । अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे सम्भवतीति अशुचि शरीरम् । किञ्चान्यत् । अशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात्प्रभृति खल्वपि शरीरं कललार्बुदपेशीघनव्यूहसम्पूर्णगर्भकौमारयौवनस्थविरभावजनकेनाशुभपरिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि । किञ्चान्यत् । अशक्यप्रतीकारत्वात् अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वमुद्वर्तनरूक्षणस्नानानुलेपनधूपप्रघर्षवासयुक्तिमाल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् । अशुच्यात्मकत्वाच्छुच्युपघातकत्वाच्चेति । तस्मादशुचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवति । निर्विण्णश्च शरीरप्रहाणाय घटत इति अशुचित्वानुप्रेक्षा ॥६॥...
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy