SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ सूत्र-3 विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छविनयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिजज्वलनमादीपयति, किमुत विकटकटाक्षकवचितम् ?, एवं यथाविभागसन्निविष्टावयवानि श्रोत्रघ्राणवदनपयोधरभरजघनस्थलादीनि वाच्यानि, त्वगिन्द्रियभेदत्वात् स्तनकलशाडुपन्यास इत्येवं तदालोकायुपरतिः श्रेयसीति भावयेत् ३ । तथा पूर्वरतानुस्मरणवर्जनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपर्यायस्तत्र रतं-क्रीडितं विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामाग्निः तत्स्मरणेन्धनानुसन्धानतः सन्धुक्षते अतस्तद्वर्जनं श्रेय इति भावयेत् ४ । तथा प्रणीतरसभोजनवर्जनमिति, प्रणीतो वृष्यः स्निग्धमधुरादिरसः क्षीरदधिनवनीतसपिर्गुडतैलपिशितमधुमद्यापूपादि तदभ्यवहारो भोजनं ततो मेदोमज्जाशुक्रायुपचयस्तस्मादपि मोहोद्भवः, अतः प्रणीतरसाभ्यवहारो वर्जनीय इत्यात्मानं भावयेत् ब्रह्मचर्यमिच्छन्निति ५ । किञ्चनं-बाह्याभ्यन्तरपरिग्रहः अविद्यमानकिञ्चनः अकिञ्चनः तद्भाव आकिञ्चन्यम्-अपरिग्रहिता तद्भावनाः पञ्च, तदभिधित्सयेदमाह'पञ्चाना'मित्यादि, पञ्चानामिन्द्रियाणां अर्थाः-विषयाः स्पर्शादयः पञ्चैव तेषां मनोज्ञा-रागहेतवः तेषां मनोज्ञानाम्-इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ-ग्रहणे सति गाय॑ स्नेहस्तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः, तथा अमनोज्ञानाम्-अप्रीतिहेतूनां ग्रहणे द्वेषवर्जनं द्वेष:-क्रोधमानपरिणामः तत्त्यागात् पञ्चैता भावनाः भाव्यमानाः प्रतिक्षणमाकिञ्चन्यं परिपूरयन्ति, ममत्वलक्षणो भावतः परिग्रहस्तद्व्यवच्छेदादपरिग्रह इति ॥७-३॥ ટીકાર્થ– અણુવ્રતની બંધ-વધાદિ અતિચારના ત્યાગ રૂપ(વિશેષ ભાવનાઓ) અને અપાયાવદ્યદર્શનાદિ સામાન્ય ભાવનાઓ આગળ કહેવાશે. ઉપભોગના અભિલાષી અને બહુ પ્રમાદી જીવોથી ધૃતિ, સંહનનની ઘણી હાનિ થવાના કારણે મહાવ્રતનું પાલન કઠીન હોવાથી
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy