SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ૨૪૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૩૪ भ्युत्थानासनप्रदानादिः, प्रहर्षपुरस्सरम्, देयगतस्तावत् क्रमो यो यत्र जनपदे प्रसिद्धः पेयादिरन्यो वा, वस्त्रादिषु पुनः रत्नाधिकक्रमः प्रकृष्टमध्यमजघन्यपात्रक्रमो वा, कल्पनीयत्वमुद्गमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्यपेयापेयग्राह्याग्राह्यता च, आदिग्रहणात् स्वयमेव स्वहस्तेन श्रद्धासंवेगानन्दप्रविकसितवदननयनोऽत्यर्थमहमनुगृहीत इत्येष विधिः । द्रव्यविशेष इत्यादि द्रव्यविशेषो द्रव्यस्यातिशयप्रकृष्टता, अन्नशब्देन चाशनं गृहीतम्, आदिशब्दात् पानखाद्यस्वाद्यवस्त्रपात्रदण्डकौघोपग्रहभेदोपधिपरिग्रहः, तदेषामन्नादीनां सारजातिगुणोत्कर्षयोगः सारःअन्नस्याच्युतरसगन्धादित्वं जातिः शालिव्रीहिगोधूमादिका गुणाः सुरभिलवणस्निग्धमधुरत्वादयो सुस्विन्नतादयो वा एषां सारादीनां उत्कर्षःप्रकृष्टता तेन योगः-सम्बन्धः, एवं पानकादीनामपि, तथा वस्त्रपात्रदण्डकादीनां देशान्तरोत्पत्तिस्वरूपवर्णविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्यसारासारादयो वाच्याः, दातृविशेष इति, दातुर्विशेष:-अतिशयश्च परिणामजनितः, प्रतिग्रहीता गुणसम्पन्नो वक्ष्यमाणः, तत्रानसूया, क्षमावत्त्वं प्रसन्नचित्तता पुण्यवानहं यस्य मे गेहमनुविशन्ति तपस्विनः, न त्वक्षमा कार्या, प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीभिर्वयमिति, त्यागेऽविषाद इति, दत्तेऽन्नादावविषादः, विषादो विषण्णताऽश्रद्धा, यतोऽतिबहुदत्तं मयेदं गृहेऽपि चिन्तनीयमेव प्रयोजनं, दत्त्वैवं चिन्तनीयमिदमेवैकं मम स्वं यद् व्रतिनामुपयुक्तमिति, तथा अपरिभाविता परिभाविता-अनादरः न परिभाविता अपरिभाविता आदर इति, देशकालप्राप्तस्य परिग्रहीतुर्वर्द्धमानश्रद्धाप्रापितेनादरेण दानं दित्सत इत्यादि, साधुदर्शने याचने वा दातुमिच्छतः परमया प्रीत्या प्रहृष्टतया योगः, एवं ददतो दत्तवतश्च कालत्रयेऽपि प्रहर्षयोगः, कुशलाभिसंधितेति भावकुशलास्तु ज्ञानावरणादिकर्मांशास्तान् लुनातीतिछिनत्ति अपनयतीति कुशलः, अभिसंधिरभिप्रायः कुशलोऽभिसंधिर्यस्य,
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy