SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૬ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય ૧૫૭ ટીકાવતરણિકાર્થ વળી બીજું એવા ઉલ્લેખથી પ્રસ્તુત અર્થના સંબંધને કહે છે. ગૃહસ્થ, ઉક્ત લક્ષણવાળા અણુવ્રતોને ધારણ કરે છે એ જાણ્યું. વળી બીજું પ્રતિપાદન કરાય છે. સૂત્રકાર કહે છે– અણુવ્રત-શિક્ષાવ્રતોનો નિર્દેશदिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च ॥७-१६॥ સૂત્રાર્થ– અગારી વ્રતી (પાંચ અણુવ્રતો ઉપરાંત) દિવ્રત, દેશવ્રત, અનર્થદંડવ્રત, સામાયિક, પૌષધોપવાસ, ઉપભોગ-પરિભોગવ્રત અને मातिथिसंविभागथी युति होय. (७-१६) भाष्यं– एभिश्च दिग्व्रतादिभिरुत्तरव्रतैः सम्पन्नोऽगारी व्रती भवति । तत्र दिग्व्रतं नाम तिर्यगूर्ध्वमधो वा दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्ययोगनिक्षेपः । देशव्रतं नामापवरकगृहग्रामसीमादिषु यथाशक्ति प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्ययोगनिक्षेपः । अनर्थदण्डो नाम उपभोगपरिभोगावस्यागारिणो व्रतिनोऽर्थः, तद्व्यतिरिक्तोऽनर्थः, तदर्थो दण्डोऽनर्थदण्डः । तद्विरतिव्रतम् । सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः । पौषधोपवासो नाम पौषधे उपवास: पौषधोपवासः । पौषधः पर्वेत्यनर्थान्तरम् । सोऽष्टमी चतुर्दशी पञ्चदशीमन्यतमां वा तिथिमभिगृह्य चतुर्थाधुपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालङ्कारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारकमास्तीर्य, स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति । उपभोगपरिभोगव्रतं नामाशनपानखाद्यस्वाद्यगन्धमाल्यादीनामाच्छादनप्रावरणालङ्कारशयनासनगृहयानवाहनादीनां च बहुसावद्यानां वर्जनम् । अल्पसावधानामपि परिमाणकरणमिति । अतिथिसंविभागो नाम न्यायागतानां कल्पनी
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy