SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ "जोगो विरिअं थामो उच्छाह परक्कमो तहा चेट्ठा । सत्ती सामत्थं ति अ जोगस्स हवंति पज्जाया ॥१॥" (पञ्चसंग्रह, गाथा - ३९६) तथा अपर आह मनसा वाचा कायेन चापि युक्तस्य वीर्यपरिणामः । जीवप्रयोगजनितः स योगसंज्ञो जिनैर्दृष्टः ॥ १॥ સૂત્ર-૮ कायः शरीरमौदारिकादिभेदपुद्गलजालात्मप्रयोगनिर्वृत्तं, प्रधानातिशयोपकारितया साधकतमत्वात् करणम्, एतदवष्टम्भात् कर्त्तात्मा गमनवल्गनलङ्घनावरोहणकूर्दनास्फोटनविशसनादिक्रियाः परिनिष्पादयति, - वागपि वाक्पर्याप्तिगृहीतभाषावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा क्वचिद् अभिलक्षितवर्णविवेकात्मनोऽभिलषणीयपदार्थप्रकाशेन साधकतमत्वात् करणतया व्याप्रियते, मनोऽपि मनोवर्गणायोग्यस्कन्धाभिनिर्वृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं मनने साधकतमत्वात् करणमात्मनः, एवमेभिः कायवाङ्मनोयोगैः समुदितैर्द्वाभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम् - आत्मनः पृथक्करणमाचरति यो द्रव्यभावाभ्यां भावतो वाऽपि प्रमत्तः सा हिंसेति, समुदिताश्च प्रतीता एव निर्वर्त्तकाः, प्रत्येकं तु कथं निर्वर्त्तकाः प्राणातिपातावद्यस्येति, भाव्यते - भूदकतेजोमारुतवनस्पतीनां काययोगः एवैकः स्पर्शनाख्यं चेन्द्रियमेकमेव, नतु वाङ्मनोयोगौ स्तः, तेषां च कायव्यापारजनित एव प्राणातिपातः, द्वित्रिचतुरिन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च कायवाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां स्पर्शनरसनघ्राणानि त्रीन्द्रियाणां स्पर्शनरसनघ्राणचक्षूंषि चतुरिन्द्रियाणां असंज्ञिनां पञ्चापीति, सर्वेषामन्तःकरणं नास्ति द्रव्यरूपमेकेन्द्रियादीनां भावमनस्तु विद्यत एवात्मस्वभावत्वात्, तच्च द्रव्यरूपमन्तःकरणमन्तरेणास्पष्टमपटु पटलावृतनेत्रवत्, संज्ञिपञ्चेन्द्रियाणामन्तःकरणसहितानि पञ्चापीन्द्रियाणि विद्यन्ते, पट्वी चैषां प्रज्ञा, कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताद्यनुतिष्ठन्ति प्रकर्षतोऽ प्रतिष्ठाननरकगमनयोग्यं, असंज्ञिपञ्चेन्द्रियास्तु मनोरहितत्वात् प्रथम
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy